________________
आगम
(१५)
प्रत
सूत्रांक
[३११]
दीप
अनुक्रम [५६६
-५७१]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [२८],
मूलं [३११]
उद्देशक: [२],
दारं [८-१३], -----
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
चतुरिन्द्रियतिर्यक्पञ्चेन्द्रिया आहारका एव वक्तव्याः, न त्वनाहारकाः, विग्रहगत्युत्तीर्णानामेवौदा रिकशरीरसम्भवातू, वैक्रिय आहारकशरीरिणश्च सर्वेऽप्येकवचने बहुवचने चाहारका एव न त्वनाहारकाः, नवरं येषां वैक्रियमाहारकं वा सम्भवति त एव वक्तव्या नान्ये, तत्र वैक्रियं नैरधिकभवनपतिवायुकायिकतिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्कवैमानिकेषु आहारकं मनुष्यष्वेव, सूत्रोलेखश्चायं - 'वेउचियसरीरी णं भंते ! जीवे किं आहारए अणाहारए १, गोयमा ! आ० णो अणा०, वेउचियसरीरे णं भंते ! णेरइए कि आहारए अणाहारए ?, गो० ! आ० नो अणा०' ४ इत्यादि, तैजसकार्मणशरीरिसूत्रे चैकवचने सर्वत्र स्यादाहारकः स्यादनाहारक इति, बहुवचने जीवैकेन्द्रियवर्जेषु शेषेषु ४ स्थानेषु भङ्गत्रिकं, जीवपदे एकेन्द्रियेषु च पुनरभङ्गकं, अशरीरिणः- सिद्धास्तेन तत्र द्वे एव पदे, तद्यथा-जीवाः सिद्धाश्च तत्र एकवचने बहुवचने चोभयत्राप्यनाहारका एव । गतं शरीरद्वारं सम्प्रति पर्याप्तिद्वारम् - तत्रागमे पर्यातयः पञ्च, भाषामनः पर्याप्त्योरेकत्वेन विचक्षणात् तथा चाहारकपर्याप्त्या पर्यासे शरीरपर्यात्या पर्यासे इन्द्रियपर्यात्या पर्याप्ते प्राणापानपर्याया पर्याप्ते भाषामनः पर्याप्त्या पर्याप्ते चिन्त्यमाने, अत्रैव सर्वसङ्कलनामाह-- एतासु पञ्चस्वपि पर्याप्तिषु समर्थितासु चिन्त्यमानाखिति शेषः प्रत्येकमेकवचने जीवपदे मनुष्यपदे च स्यादाहारकः स्यादनाहारक इति, शेषेषु तु स्थानेषु आहारक इति, बहुवचने 'जीवेसु मणुस्सेसु य तियभंगो'त्ति जीवपदे मनुष्यपदे च भङ्गत्रिकं वक्तव्यं तचौदारिकशरीरिसूत्रमिव भावनीयं, अवशेषाः सर्वेऽप्याहारका वक्तव्याः, नवरं भाषामनः पर्यासिः
For Parata Lise Only
~ 1049~