SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ ३०९ ] गाथा दीप अनुक्रम [५५८ -५६१] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दार [१-३], पदं [२८], उद्देशक: [२], मूलं [ ३०९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः केन्द्रियाणामनन्तानां विग्रहगत्यापन्नानामत एवानाहारकाणां सदैव लभ्यमानतया अनाहारकपदेऽपि सर्वदा बहुवच नभावात्, नैरयिकपदे षट् भङ्गाः, तत्र प्रथमो भङ्ग आहारका इति, अयं च भङ्गो यदाऽन्योऽसंज्ञिनारकः उत्पद्यमानो विग्रहगत्यापन्नो न लभ्यते पूर्वोत्पन्नास्त्वसंज्ञिनः सर्वेऽप्याहारका जातास्तदा लभ्यते, द्वितीयोऽनाहारका इति एष यदा पूर्वोत्पन्नोऽसंज्ञी नारक एकोऽपि न विद्यते उत्पद्यमानास्तु विग्रहगत्यापन्ना बहवो लभ्यन्ते तदा विज्ञेयः, तृतीय आहारकश्च अनाहारकश्च, द्वित्वेऽपि प्राकृते बहुवचनमिति बहुवचनचिन्तायामेषोऽपि भङ्गः समीचीन इत्युपन्यस्तः, तत्र यदा चिरकालोत्पन्न एकोऽसंज्ञी नारको विद्यते अधुनोत्पद्यमानोऽपि विग्रहगत्यापन्न एकस्तदाऽयं भङ्गः, चतुर्थः आहारकश्च अनाहारकाच एष चिरकालोत्पन्ने एकस्मिन्नसंज्ञिनि नारके विद्यमाने अधुनोत्पयमानेषु असंज्ञिषु विग्रहगत्यापन्नेषु द्रष्टव्यः, पञ्चमः - आहारकाश्च अनाहारकश्च, अयं चिरकालोत्पन्नेषु बहुषु असंज्ञिषु नारकेषु सत्सु अधुनोत्पद्यमाने विग्रहगत्यापन्ने एकस्मिन्नसंज्ञिनि विज्ञेयः, षष्ठ आहारकाश्च अनाहारकाच, एप बहुषु चिरकालोत्पन्नेषूत्पद्यमानेषु चासंज्ञिषु वेदितव्यः, 'एवमेते छन्भंगा' एवमुपदर्शितप्रकारेण एते षट् भंगाः, तद्यथा- आहारकपदस्य केवलस्य बहुवचनेनैकः १, अनाहारकपदस्य केवलस्य बहुवचनेन द्वितीयः २, आहारकपदस्थानाहारकपदस्य च युगपत् प्रत्येकमेकवचनेन तृतीयः ३, आहारकपदस्यैकवचनेन अनाहारकपदस्य बहुवचनेन चतुर्थः ४, आहारकपदस्य बहुवचनेन अनाहारकपदस्यैकवचनेन पञ्चमः ५, उभयत्रापि बहुवचनेन षष्ठः ६, शेषास्तु भङ्गा न Education International For Penal Use Only ~ 1033~ org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy