________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: २], ------------- दारं [१-3], ----- ------ मूलं [३०९] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३०९]
गाथा
ISभवसिद्धिया णं भंते !' इत्यादि, अत्राप्याहारकद्वार इव जीवपदे एकेन्द्रियेषु च प्रत्येकमुभयत्र बहुवचनेनैक एव भङ्गो,
यथा आहारका अपि अनाहारका अपि, शेषेषु नैरयिकादिषु स्थानेषु भङ्गत्रिकं, कदाचित्केवला आहारका एव न स्खेकोऽप्यनाहारकः, अथवा कदाचिदाहारका एकोऽनाहारकः, अथवा आहारका अपि अनाहारका अपि उभयत्रापि बहुवचनं, तथा चाह-'जीवगिदियवजो तियभंगों' इति, यथा च भवसिद्धिके एकस्मिन् बहुषु चाहारकानाहा-18 रकत्वचिन्ता कृता तथा अभवसिद्धिकेऽपि कर्त्तव्या, उभयत्राप्येकवचने बहुवचने च भङ्गसङ्ख्यायाः सर्वत्रापि समानत्वात् , तथा चाह-'अभवसिद्धिए एवं चेय' अभवसिद्धिकेऽपि भवसिद्धिक इव एकवचने बहुवचने च वक्तव्यमिति, यस्तु न भवसिद्धिको नाप्यभवसिद्धिकः स सिद्धः, स हि भवसिद्धिको न भवति, भवातीतत्वात् , अभवसिद्धिकस्तु रूढया यः सिद्धिगमनयोग्यो न भवति स उच्यते, ततोऽभवसिद्धिकोऽपि न भवति, सिद्धिप्राप्तत्वात, तथा च सति | नोभवसिद्धिकनोअभवसिद्धिकत्वचिन्तायां वे एव पदे, तद्यथा-जीवपदं सिद्धिपदं च, उभयत्राप्येकवचने एक एव | भङ्गोऽनाहारक इति, बहुवचनेऽप्येक एवानाहारका इति । संज्ञिद्वारे-'सन्नी गं भंते' इत्यादि प्रश्चसूत्र सुगम, निर्वचनसूत्रमाह-'गोयमे'त्यादि, विग्रहगतावनाहारकः शेषकालमाहारका, ननु संज्ञी समनस्क उच्यते, विग्रहगती । |च मनो नास्ति ततः कथं संज्ञी सन्ननाहारको लभ्यते ।, उच्यते, इह विग्रहगत्यापन्नोऽपि संघ्यायुष्कवेदनात् संजी| व्यवहियते, यथा नारकायुष्कवेदनानारकततो न कश्चिद्दोषः, 'एवं'मित्यादि, एवमुपदर्शितेन प्रकारेण तावद् वक्तव्यं
दीप
अनुक्रम
[५५८
-५६१]
~1031~