________________
आगम
(१५)
प्रत
सूत्रांक
[ ३०६ ]
दीप
अनुक्रम [५५५]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
उद्देशक: [१], दारं [-], मूलं [ ३०६ ] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [२८], मुनि दीपरत्नसागरेण संकलित..
तेऽर्थात् मुखे इति प्रक्षेपः स चासाबाहारश्च प्रक्षेपाहारः, तत्र यः खल्वोघतो वर्षादिषु पुद्गलप्रवेशो मूत्रादिगम्यः स लोमाहारः, कावलिकस्तु प्रक्षेपांहारः, तत्र यान् पुद्गलान् लोमाहारतया गृह्णाति तान् सर्वान् - अपरिशेषानाहारय|न्ति, तेषां तथा २ स्वभावत्वात्, यान् पुद्गलान् प्रक्षेपाहारतया गृह्णन्ति तेषामसोयतमं भागमाहारयन्ति, अनेकानि पुनर्भागसहस्राणि - बहवोऽसङ्ख्येया भागा इति अस्पृश्यमानानामनाखाद्यमानानां विध्वंसमागच्छन्ति, किमुतं भवति ? - बहूनि द्रव्याण्यन्तर्बहिश्च अस्पृष्टान्येवानाखादितान्येव च विध्वंसमायान्ति, नवरं यथायोगं केचिदतिस्थौल्यतः केचिदतिसौक्ष्म्यत इति, सम्प्रत्यस्पृश्यमानानामनाखाद्यमानानां च परस्पर मल्पबहुत्वमभिधित्सुराह - 'एएसि णं भंते ! पुग्गलाणं अणासाइज्यमाणाण' मित्यादि, इह एकैकस्मिन् स्पर्शयोग्ये भागेऽनन्ततमो भाग आखाद्यो भवति, ततो येऽनाखाद्यमानाः पुद्गलास्ते स्तोका एव, अस्पृश्यमानपुद्गलापेक्षया तेषामनन्तभागवर्त्तित्वात्, अस्पृश्यमानास्तु पुद्गला अनन्तगुणाः, 'जिग्भिदियफासिंदियवेमायत्ताए' इति विमात्राऽत्रापि प्राग्वद् भावनीया, 'एवं जाव चउरिंदिया' एवं - द्वीन्द्रियोक्तप्रकारेण सूत्रं तावद् वक्तव्यं यावचतुरिन्द्रियाः- चतुरिन्द्रियगतं सूत्रं, प्रायः समानवक्तव्यत्वात्, यस्तु विशेषः स उपदर्श्यते- 'नवर' मित्यादि, यान् पुद्गलान् प्रक्षेपाहारतया गृह्णन्ति तेषां पुद्गलानामेकमसङ्ख्येयतमं भागमाहारयन्ति अनेकानि पुनर्भागसहस्राणि सङ्ख्यातीता असङ्ख्येयभागा इत्यर्थः अनाघ्रायमाणानि अस्पृश्यमाणानि अनाखाद्यमानानि विध्वंसमागच्छन्ति, तानि च यथायोगमतिस्थौल्यतोऽतिसौक्ष्म्यतश्च वेदित
Education Internation
For Pernal Use On
~ 1019~