________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [३०३-३०४] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३०३-३०४]
गाथा:
आहारयन्ति उत मध्ये-मध्येषु समयेषु आहोश्चित्पर्यवसाने-पर्यवसानसमये?, भगवानाह-गौतम ! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति, किमुक्तं भवति ?-उपभोगोचितस्य कालस्यान्तर्मुहूर्तप्रमाणस्यादिमध्यावसानेषु समयेष्वाहारयन्तीति, यानि भदन्त ! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! किं खविषयाणिखोचिताहारयोग्यानि आहारयन्ति उत अविषयाणि-खोचिताहारायोग्यान्याहारयन्ति ?, भगवानाह-गौतम ! खविषयाण्याहारयन्ति नो अविषयाण्याहारयन्ति, यानि भदन्त ! खविषयाण्याहारयन्ति तानि भदन्त ! किमानुपूर्व्या
आहारयन्ति अनानुपूर्व्या ?, आनुपूर्वीनाम यथासन्नं तद्विपरीता अनानुपूर्वी, भगवानाह-गौतम ! आनुपूा, सूत्रे आशा द्वितीया तृतीयार्थे वेदितव्या प्राकृतत्वात् , यथा आचाराने 'अगणिं च पुट्ठा' इत्यत्र, आहारयन्ति नो अनानुपूर्या,
ऊर्ध्वमधस्तिर्यग्वा यथासन्नं नातिक्रम्याहारयन्तीति भावः, यानि भदन्त ! आनुपूर्व्या आहारयन्ति तानि कि 'तिदिसिं'ति तिस्रो दिशः समाहृताखिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पञ्चदिशि पदिशि वा, इह लोकनिष्कुटपर्यन्ते जघन्यपदे त्रिदिगव्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा अतस्त्रिदिश आरभ्य प्रश्नः कृतः, भगवानाह---गौतम ! नियमात् षड्दिशि व्यवस्थितान्याहारयन्ति, नैरयिका हि त्रसनाड्या मध्ये व्यवस्थिताः, तत्र चावश्यं षड्दिसंभव इति, 'ओसण्णकारणं पडुचे'त्यादि, ओसन्नशब्दो बाहुल्यवाची, यथा|| 'ओसन्नं देवा सायावेयणं वेदयन्ती'त्यत्र, ओसन्नकारणं-बाहुल्यकारणं प्रतीत्य, किं तद्वाहुल्यकारणमिति चेत्, 13
एन्टरटOCIEideo.co
दीप अनुक्रम [५५०-५५३]
~ 1009~