________________
आगम
(१५)
प्रत
सूत्रांक
[३०३
-३०४]
+
गाथा:
दीप
अनुक्रम
[५५०
-५५३]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
दारं [-1,
पदं [२८],
उद्देशक: [१], मूलं [ ३०३ ३०४] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
अचित्ताहारा इत्यादि १, द्वितीय आहारार्थिन इति २, तृतीयः 'केवइय'त्ति कियता कालेन आहारार्थः समुत्पद्यते इत्यादिरूपः ३, चतुर्थः किमाहारमाहारयन्तीतिपदोपलक्षितः ४ पञ्चमः सर्वत इतिपदोपलक्षितः, स चैवम्'नेरइया णं सबतो परिणामंती'त्यादि ५ चेवशब्दः समुच्चये, 'कइभागं'ति गृहीतानां पुद्गलानां कतिभागमाहारयन्तीत्येवमादिः षष्ठोऽधिकारः ६, 'तथा सवे' इति यान् पुद्गलान् आहारतया गृह्णन्ति तान् किं सर्वान् अपरिशेषान् आहारयन्ति उतासर्वान् इत्येवमुपलक्षितः सप्तमोऽधिकारः ७, तथाऽष्टमोऽधिकारः परिणामः- परिणामरूपो बोद्धव्यः स चैवम् 'नेरइया णं भंते! जे पोग्गले आहारत्ताए गेण्हंति ते णं तेसिं पुग्गला कीसत्ताए भुज्जो २ परिणामंती' त्यादिरूपः ८, नवमोऽर्थाधिकारः एकेन्द्रियादीनि शरीराणि स चैवम्- 'नेरइया णं भंते । किं एगिंदियसरीराई आहारैति जान पंचिंदियसरीराई आहारैति ? ९, दशमोऽधिकारो लोमाहारो-लोमाहारवतव्यतारूपः एकादशी मनोभक्षितवक्तव्यतारूपः ११, 'एएसिं तु' इत्यादि, एतेषां सामान्यतोऽनन्तरमुद्दिष्टानां पदानां - अर्थाधिकाराणां विभावना-विस्तरतः प्रकाशना नाम भवति कर्त्तव्यता, सूत्रकारवचनमेतत् । प्रतिज्ञातमेत्र निर्वाहवितुका- है मो 'यथोद्देशं निर्देश' इति न्यायात् प्रथमाधिकारं विभावयति - 'नेरइया णं भंते!' इत्यादि, नैरधिका भदन्त किं सचित्ताहाराः -- सचित्तमाहारयन्तीति सचिताहाराः, एयमचित्ताहारा मिश्राहारा इत्यपि भावनीयं भगवानाह - 'गौतमे 'त्यादि, इह वैक्रियशरीरिणो वैक्रियशरीरपरिपोषयोग्यान् पुद्गलानाहारयन्ति, ते चाचित्ता एवं सम्भवन्ति न
१०,
Eaton International
For Parts Only
~1003~