________________
आगम
(१५)
प्रत
सूत्रांक
||||
गाथा-१
दीप
अनुक्रम
[8]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [-]
उद्देशक: [-],
दार [-],
मूलं [गाथा - १] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
| सिद्धाः - नित्या अपर्यवसानस्थितिकत्वात् प्रख्याता वा भव्यैरुपलब्धगुणसन्दोहत्वात् उक्तं च- "मातं सितं येन पुराणकर्म, यो वा गतो निर्वृतिसोधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥ १ ॥” सिद्धाश्च नामादिभेदतोऽनेकधा ततो यथोक्तसिद्धप्रतित्त्यर्थं विशेषणमाह-'व्यपगतजरामरणभयान्' जरावयोहानिलक्षणा मरणं - प्राणत्यागरूपम् भयम् - इहलोकादिभेदात्सप्तप्रकारम् उक्तं च- "ईहपरलोगादाणं अकम्हआजीवमरणमसिलोए" इति, विशेषतः - अपुनर्भावरूपतया अपगतानि - परिभ्रष्टानि जरामरणभयानि येभ्यस्ते तथा तान्, 'त्रिविधेन' मनसा वाचा कायेन, अनेन योगत्रयव्यापारविकलं द्रव्यवन्दनमित्याह, 'अभिवन्द्य' अभिमुखं वन्दित्वा, प्रणम्येत्यर्थः । अनेन समानकर्तृकतया पूर्वकाले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तपक्षव्यवच्छेदमाह, एकान्तनित्यानित्यपक्षे क्त्वाप्रत्ययस्यासम्भवात् तथाहि अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यम्, तस्य कथं भिन्नकालक्रियाद्वय कर्तृत्वोपपत्तिः १, आकालमेकखभावत्वेनैकस्या एव कस्याश्चित् क्रियायाः सदा भावप्रसङ्गात् अनित्यमपि प्रकृत्यैकक्षणस्थितिधर्मकम्, ततस्तस्यापि भिन्नकालक्रियाद्वय कर्तृत्वायोगः, अवस्थानाभावादित्यलं विस्तरेण, अन्यत्र सुचर्चितत्वात् क्त्वाप्रत्ययस्योत्तरक्रिया सापेक्षत्वादुत्तरक्रियामाह - 'बन्दामि जिणवरिन्द' मित्यादि, 'सूर वीर विक्रान्ती' वीरयति स्म कषायादिशत्रून् प्रति विक्रामति स्मेति वीरः, महांश्वासौ वीरश्च महावीरः, इदं च 'महावीर' १ इहपरलोकादानाकस्मादाजीवमरणाश्लोकाः ।
'प्रज्ञापना' पदस्य मङ्गलम्
For Parts Only
~9~