________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ------------- उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[१७८]
तधा चाह-से एएणटेण मित्याधुपसंहारवाक्यं गतार्थ ॥ सम्प्रत्येतावानेव मनुष्यलोकोऽत्रैव च वर्षवर्षधरादय इत्येतन्सूत्रं प्रतिपादयितुकाम आह-'जावं च णमित्यादि, यावदयं मानुपोत्तरपर्वतस्तावत् 'अस्सिलोए' इति अयं मानुषलोक इति प्रोच्यते न परतः, तथा यावद्वर्धाणि-भरतादीनि क्षेत्राणीति या वर्षधरपर्वता-हिमवदादय इति वा तावदयं मनुष्यलोक इति प्रोच्यते न परत:, एतावता | किमुक्तं भवति वर्षाणि वर्षधरपर्वताश्च मनुष्यलोक एव नान्यनेति, एवमुत्तरत्रापि भाषनीयं, तथा यावद्हाणीति या गृहापतनानीति वा तत्र गृहाणि प्रतीतानि गृहापतनानीति-गृहेष्वागमनानि तावदयं मनुष्यलोकः प्रोच्यते, गृहाणि गृहापतनानि बाऽस्मिन्नेव मनुष्यलोके | नान्यत्रेति भावः, तथा प्रामा इति वा नकराणीति वा यावत्सन्निवेशा इति वा, यावत्करणात् खेटकवटादिपरिग्रह स्तावदयं मनुष्यलोक इति प्रोच्यते, अत्रापि भावार्थः प्राग्वन् , तथा यावदहन्तश्चक्रवर्तिनो बलदेवा वासुदेवाश्चारणा-जवाचारणविद्याधराः 'श्रमणा साधवः 'श्रमण्यः' संयत्यः आवफा: भाविकाच, तथा मनुष्याः प्रकृतिभद्रका इत्यादि यावद्विनीतातावदयं मनुष्यलोक इति प्रोक्यते, अहंदादीनामत्रैव भावो नान्यत्रेति भावार्थः । तथा यायदुदारा बलाहका-मेघाः संस्विद्यन्ते संमूर्छन्ति-वर्षा वर्षन्ति, अस्य व्याख्यान | प्राग्वत् तावदयं मनुष्यलोक इति प्रोच्यते, मेघानामपि वपुकाणामत्रैव भावो नान्यत्रेति भावार्थः, तथा यावत् 'बादर' गुरुतरः 'स्तनितशब्दः' गर्जितशब्द इति, बादरो विद्युत्कार इति वा' बादरा-अतिबलतरा विद्युत् तावदयं मनुष्यलोक इति प्रोच्यते, तथा यावदयं वादरोऽग्निकायिकस्तावदवं मनुष्यलोक इति प्रोच्यते, बादराग्निकायिकस्यापि मनुष्यलोकात्परतोऽसम्भवात् , तथा यावदाकरा |इवि वा, आकरा-हिरण्याकरादयः, नद्य इति वा निधय इति वा तावदयं मनुष्यलोक इति प्रोच्यते, तेषामपि मनुष्यक्षेत्रादन्यत्रास-18 म्भवात् , तथा यावत्समया इति वा, समय:-परमनिरुद्धः कालविशेषो यस्याधो विभागः कर्तुं न शक्यते, स च सूचिकदारकस्तरुणो
दीप अनुक्रम [२८७]
~ 690~