________________
आगम
(१४)
प्रत
सूत्रांक
[१७८]
दीप
अनुक्रम
[२८७]
श्रीजीवा
जीवाभि०
मलयगि
रीयावृत्तिः
॥ ३४३ ॥
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक: [(द्विप्-समुद्र)],
प्रतिपत्तिः [३],
मूलं [१७८]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
| झोच्य पुताभ्यां मनागृलनो निषीदति तथा निपण्णय शिरः प्रदेशे उन्नतः पञ्चाद्भागे तु निनो निम्नतरः एवं मानुषोसरोऽपि जम्बूद्वीपदिशि छिन्नटङ्कः स चोन्नतः पाश्चात्यभागे तूपरितनभागादारभ्य पृथुलप्रदेशवृद्ध्या निम्नोनिम्म्रतर इति एतदेवातिव्यक्तमाह-'अब जवरासिसंठाणसंटिए' इति अपगतमर्द्ध यस्य सोऽपार्द्ध: स चासो व राशिच अपार्द्धयवराशी तयोरिव यत्संस्थानं यस्य तेन ४ संस्थितः, यथा यवो राशि धान्यानामपान्तराले ऊर्जाधोभागेन छिन्नो मध्यभागे छिटक इव भवति बहिभांगे तु शनैः शनैः प्रभुत्वखा निनो निम्नतरस्तद्वदेषोऽपि यत्रग्रहणं पृथग्व्याख्यातमन्यत्र केवलापार्द्धयवसंस्थानतयाऽपि प्रतिपादनात् उक्तञ्चजं वृणयामओ सो रम्मो अद्धजवसंठिओ भणिओ सिंहनिसादीएणं दुहाकओ पुक्खरदीवो || १ ||" 'सब्वजंबूणयामए' इति सर्वा सना जाम्बूनदमय: 'अच्छे जाव पडिरूये' इति प्राग्वत् । 'उभओ पासि मित्यादि उभयोः पार्श्वयोरन्तर्भागे मध्यभागे चैयर्थः प्र त्येकमेकैकभावेन द्वाभ्यां पद्मवरवेदिकाभ्यां वनखण्डाभ्यां च 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपि पद्मवेदिकावनखण्डयोः प्रमाणं वर्णकच प्राग्वम् ।। साम्प्रतं नामनिमित्तमभिधित्सुराह— 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-मानुपोत्तरः पर्वतः मानुषोत्तरः पर्श्वतः ? इति भगवानाह - गौतम ! मानुषोत्तरपर्वतस्य 'अन्तः' मध्ये म नुष्याः उपरि 'सुवर्णाः' सुवर्णकुमारा देवा: वहिः सामान्यतो देवाः, ततो मनुष्याणामुतरः- पर इति मानुषोत्तरः । अथान्यद् गौतम ! मानुपोत्तरं पर्वतं मनुष्या न कदाचिदपि व्यतित्रजितवन्तः व्यतित्रजन्ति व्यतिजियन्ति वा किं सर्वथा न ? इत्याह-नान्यत्र धारणेन पञ्चम्यर्थे तृतीया प्राकृतत्वात् 'चारणात्' जङ्घाचारणलब्धिसंपन्नान् विद्याधराद् देवकर्मण एवं क्रियया देवोत्पादनादित्यर्थः, चारणादयो व्यतित्रजन्यपि मानुषोत्तरं पर्वतमिति तद्वर्जनं ततो मानुषाणामुत्तरः- उच्चैस्तरोऽलङ्घनीयत्वान्मानुपोत्तरः, ॐ
| ॥ ३४३ ।।
For P&False City
३ प्रतिपत्ती
मानुषोतराधि०
~ 689~
उद्देशः २ सू० १७८
अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्