SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१२६] दीप अनुक्रम [१६४] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) - प्रतिपत्ति: [३], उद्देशक: [(द्विप्-समुद्र)]. मूलं [ १२६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपि विकल्पार्थाः किंनरादयो व्यन्तरविशेषाः तेषां कथम्भूतानाम् ? इत्याह-- 'भद्रशालवनगतानां वा' इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं प्रथम मेखलायां नन्दनवनं शिरसि चूलिकायाः पाश्रेषु सर्वतः पण्डकवनं 'महाहिमवंत मलयमन्दर गिरिगुहा समन्नागयाणं' इति महाहिमवान् हैमवत क्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः उपलक्षणं शेषवर्षधरपर्वतानां मलयपर्वतस्य मन्दरगिरेश्व- मेरुपर्वतस्य च गुहा समन्वागतानां वाशब्दा विकल्पार्थाः, एतेषु हि स्थानेषु प्रायः किंनरादयः प्रमुदिता भवन्ति तत एतेषामुपादानम्, 'एगतो सहियाणं'ति एकस्मिन् स्थाने सहितानां समुदितानां 'समुहागयाणं'ति परस्परसंमुखागतानां संमुखं स्थितानां नैकोऽपि कस्यापि पृष्ठं दत्त्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविवासोत्पत्तेः, तथा 'समुविद्वाणं सम्यक् परस्परानावाच्या उपविष्टाः समुपविष्टास्तेषां समुपविष्टानां तथा 'संनिविद्वाण' निति सम्यक् स्वशरीरानायाधया न तु विषमसंस्थानेन निविष्टाः संनिविष्टास्तेषां 'पमुइयपक्कीलियाणं'ति प्रमुदिताः - प्रहर्षे गताः प्रक्रीडिता:- क्रीडितुमारब्धअन्तस्ततो विशेषणसमासस्तेषां तथा गीते रतिर्येषां ते गीतरतयो गन्धर्व नाट्यादि तत्र हर्पितमनसो गन्धर्वतमनसस्ततः पूर्वपदेन विशेषणसमासस्तेषां गद्यादिभेदादष्टविधं गेयं तत्र गयं यत्र स्वरसधारेण गद्यं गीयते यत्र तु पयं-वृत्तादि गीयते तत्पथं यत्र कधिकादि गीयते तत्कथ्यं, पदवद्धं यदेकाक्षरादि यथा ते ते इत्यादि पादवद्धं यद् वृत्तादिचतुर्भागमात्रे पदे बद्धम्, 'उक्खित्ताय'मिति उक्षिप्तकं प्रथमतः समारभ्यमाणं, दीर्घत्वं ककारात्पूर्वं प्राकृतवान् एवमुत्तरत्रापि द्रव्यं, 'प्रवृत्तक' प्रथमसमारम्भादूर्द्धमाक्षे पपूर्वकप्रवर्त्तमानं 'मंदाय 'मिति मन्दकं मध्यभागे सकलमूर्च्छनादिगुणोपेतं मन्दं मन्दं संचरन तथा 'रोइयावसानं'ति रोचितंसम्यग्भावितमवसानं यस्य तद् रोचितावसानं शनैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद् रोचितावसानमिति भावः, तथा For P&Praise City ~390~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy