SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५] दीप क्तिचित्रास्तः, किमुक्तं भवति ?-आवादिलक्षणोपेतैः, तथा सच्छायः सती शोभना छाया-निर्मलस्वरूपा येषां ते सच्छाया:, तथा सती-शोभना प्रभा-कान्तिर्येषां ने सत्प्रभाः तैः, 'समरीइएहि ' इति समरीचिकैः बहिानिर्गतकिरणजालसहितैः सोद्योतैःबहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितैः एवम्भूतैर्नानाजातीयैः पञ्चवणमणिभिरुपशोभितः, तानेव पञ्चवर्णानाह जहा-कण्हेहिं' इत्यादि सुगम, 'नत्व णमित्यादि, 'तत्र' तेषां पश्चवर्णानां मणीनां मध्ये'णमिति वाक्यालङ्कमरे, ये ते कृष्णा मणयः, ते कृष्णमणय इत्येव सिद्धे ये इति वचनं भाषाकमार्थ, तेषां 'णमिति पूर्ववत् , अयम्-अनन्तरमुद्दिश्यमान एतद्रुपः-अनन्तरमेव क्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, स यथा नाम 'जीमत ' इति जीमतोबलाहकः, स चेह पाट्यारम्भसमये जलभृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसम्भवात् , इतिशब्द उपमाभूतवस्तुनामपरिसमामियोतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र, अञ्जन-सौवीराजनं रत्नविशेषो वा, खञ्जनं दीपमल्लिकामल: कज्जलं-दीपशिखापतितं, मषी-तदेव कज्जलं ताम्रभाजनादिपु सामग्रीविशेषेण घोलितं मसीगुलिका घोलितकज्जलगुटिका, कचित कामसी इति वा मसीगुलिया' इति न दृश्यते, 'गवलं माहिषं शृङ्गं तदपि चोपरितनत्यम्भागापसारेण द्रष्टव्यं, तत्रैव विशिष्टस्य है। काकालिनः सम्भवात , तथा तस्यैव माहिपशङ्गनिविडतरसारनिवर्तिता गुटिका गवलगुटिका भ्रमर:-प्रतीतः भ्रमरावली- भ्रमर-13 पतिः भ्रमरपतङ्गन्सार:-भ्रमरपक्षान्तर्गतो विशिष्टकालिमोपचितपदेशः, जम्बूफलं प्रतीतं, आद्रारिष्ठकः-कोमलः काकः, परपुष्टःकोकिलः, गजी गजकलभश्च प्रतीतः, कृष्णसर्पः-कृष्णवर्णसर्पजातिविशेषः, कृष्णकेसर:-कृष्णबकुला आकाशथिग्गलं' शरदि| मेघविनिर्मुक्तमाकाशखण्डं, नद्धि कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः अशोककणवरिवन्धु अनुक्रम [१५] SNEaratini Sanitarary.org सूर्याभदेवस्य दिव्ययान करणं ~66~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy