________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
----------- मूलं [४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सुत्राक
दीप
विस्तारवन्ति विपुलानि-अभूतानि भवनानि गृहाणि शयनानि आसनानि च प्रतीतानि यानानि-रथादीनि बाहनानि-अश्वादीन । एतैराकीणों व्याप्तो युक्तो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णः, तथा बहुधनं बहुजातरूपं सुवर्ण रजतं च-रूप्यं यस्य स बहुधनबहुजातरूपरजतः, तथा आयोगप्रयोगसम्पयुक्तः-आवाहनविसर्जनकुशलः, तथा विच्छदितं- तथाविधविशिष्टोपकाराकारिनया विसष्टमकुरिटकादिषु प्रचुर भक्तपानं यस्मिन् राज्यमनुशासति स विच्छर्दितप्रचुरभक्तपानः, अनेन पुण्याधिकतया न तस्मिन राज्यमनुशासति दुर्भिक्षमभूदिति कथितं, तथा बहूनां दासीनां दासानां गां-बलीवानां महिषाणां मां-स्त्रीगवानां एडकानां च प्रभुः बहुदासीदासगोमहिपगवेलगप्रभुः, ततः स्वार्थिकमत्ययविधानात् प्रभुकः, तथा परिपूर्णानि भृतानि यन्त्रकोशकोष्ठागाराणि यन्त्रगृहाणि कोशगृहाणि भाण्डागाराणि कोष्ठयहाणि धान्याना कोष्ठागाराणि गृहाणि इति भावः, आयुधगृहाणि च यस्य स पतिपूर्णयन्त्रकोशकोष्ठामारायुधगृहः, तथा बलं शारीरिक मानसिकं च यस्यास्ति सबलवान्, दुर्बलपल्ययमित्रो, दुर्बलानामकारणवत्सल इति भावः, एवंभूतः सन् राज्य प्रशासन विहरति अवतिष्ठते इति योगः, कथम्भूतं राज्यमित्याह-अपहतकण्टक, इह देशोपद्रव
कारिणश्चरटाः कण्टकाः ते अपहता अवकाशानासादनेन स्थगिता यस्मिन् तत् अपहतकण्टकं, तथा मलिताः-उपद्रवं कुर्वाणा मानकाम्लानिमापादिताः कण्टका यत्र तन्मलितकण्टक, तथा उद्धताः स्वदेशत्याजनेन जीवितत्याजनेन वा कण्टका यत्र तत् उद्धृतकण्टकं,
तथा न विद्यते प्रतिमल्लः कण्टको यत्र तदप्रतिमल्लकण्टक, तथा 'ओहयसत्तु इति प्रत्यनीकाः राजानः शत्रबस्ते अपहताः स्वावकाशमलभमानीकता यत्र तत् अपहतशत्रु तथा निहताः-रणाङ्गणे पातिताः शत्रबो यत्र तनिहतशत्रु, तथा मलिता:-तगतसैन्यत्रासापादनतो मान-1 ग्लानिमापादिताः शत्रचो यत्र तत् मलितशत्र, तथा स्वातन्त्र्ययावनेन स्वदेशच्यावनेन जीवितच्यावनेन वा उद्धताः शत्रचा यत्र तत् ।
अनुक्रम
[४]
REmiratininewl
TEmastaram.org
~ 24~