SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः ) (१३) --------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [२९] दीप अनुक्रम [२९]] पासादावतंसका नाममासादविशेषाः, उक्तं च जीवाभिगममूलटीकार्या-"प्रासादावतंसकौ-पासादविशेषा'विति, ते चप्रासादावतकासका अर्धतृतीयानि योजनशतानि ऊर्ध्वम् उच्चैस्त्वेन पञ्चविंशं योजनशतं विष्कम्भेन, 'अभुम्णयमूसियपहसियाविव' अभ्युद्गता-आमिमुख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिक्षुपसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव ते अभ्युद्गता निरालम्बाः तिष्ठन्तीति भावः, 'विविहमणिरयणभत्तिचित्ता' विविधा-अनेकमकारा ये मणयः-चन्द्रकान्तादयो यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभिः-विच्छित्तिविशेषैश्चित्रा-नानारूपाः आश्चर्यवन्तो वा नानाविधमाणिरत्नभक्तिचित्राः, 'वाउद्धयविजयवेजयंतीपदागछताइछत्तकलिया' वातोद्धता-बायुकम्पिता विजयः-अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना याः पताका अथवा विजया इति बैजयन्तीना पार्यकर्णिका उच्यन्ते तत्पधाना वैजयन्त्यो विजयवैजयन्त्यः, पताकास्ता एव विजयबर्जिता छत्रातिछत्राणि-उपर्यपरि स्थितान्यातपत्राणि तैः कलिता वातोद्भूतविजयवैजयन्तीपताकाछत्रातिच्छाकलिताः, तुङ्गा-उच्चा उच्चैस्त्वेनार्द्धतृतीययोजनशतप्रमाणॐत्वात् अत एव 'गगनतलमणुलिहतसिहरा' इति गगनतलं-अम्बरतलम् अनुलिखन्ति-अभिलयन्ति शिखराणि येषां ते तथा, जालानि जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभतिलोपःप्राकृतत्वात् , तथा पञ्जरात् उन्मीलिता इव-बहिष्कृता इव पञ्जरोन्मीलिता इव, यथा किल किमपि वस्तु पजरात-वंशादिमयाअच्छादनविशेषात् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते एवं तेऽपि मासादावतंसका इति भावः, तथा मणिकनकानि-माणिकनकमय्यः स्तूपिका:-शिखराणि येषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि-भित्त्यादिषु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिषु तैश्चित्राः-तथा नानारूपा आश्चर्यभूता वा विकसितशतपत्रपुण्डरीकतिलक Santaratinully सूर्याभविमानस्य वर्णनं ~140~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy