________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [२०-२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०-२३]
दीप अनुक्रम [२०-२३]
त्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च सूर्याभेन देवेन एवमुक्ताः सन्तो हृष्टा यावत्लतिशृण्वन्ति, अभ्युपगच्छन्तीत्यर्थः, पतिश्रुत्य च यत्र श्रमणो भगवान्महावीरस्तत्रोपागच्छति उपागत्य च श्रमणं भगवन्तं महावीरं त्रिकृत्य आदक्षिणप्रदक्षिणीकुर्वन्ति कत्वा च बन्दन्ते नमस्यन्ति वन्दित्वा नमस्यित्वा च यस्मिन्प्रदेशे गौतमादयः श्रमणास्तत्र समकालमेव-एककालमेव समवसरन्ति.. मिलन्तीत्यर्थः, समवसत्य च समकमेव-एककालमेव अवनमन्ति-अधो नीचा भवन्ति, अवनम्य च समकमेव उन्नमन्ति, ऊर्ध्वमवति
एन्ते इति भावः, तदनन्तरं चैवं क्रमेण सहितं सङ्गन्तं स्तिमितं चावनमनमुन्नमनं च वाच्यम् , अमीषां च सहितादीनां भेदः सम्यसाकोशलोपेतनाटयोपाध्यायादेवागन्तव्यः, ततः स्तिमितं समकमुन्नम्य समकमेव प्रसरन्ति, प्रसृत्य च समकमेव यथायोगमातोद्यवि
धानानि गृह्णन्ति, गृहीत्वा च समकमेव प्रवादितवन्तः समकमेव प्रगीतवन्तः समकमेव प्रनर्तितवन्तः, 'किन्ते' इत्यादि, किश्च ते देवकुमारा देवकुमारिकाच एवं प्रगीता अप्यभवन्निति योगः, कथमित्याह-'उरेण मैद'मिति, सर्वत्र सप्तम्यर्थे तृतीया, उरसि मन्दं यथा । भवति एवं प्रगीताः, 'शिरेण तारं कण्ठेन वितार मिति शिरसि कण्ठे च तारं अतिशयेन यथावल्लक्षणोपेतं, किमुक्तं भवति ?-उरसि प्रथमतो गीतमुत्क्षिप्यते उत्क्षेपकाले च गीतं मन्दं भवति, 'आदिमिउमारभंता' इति वचनात् , अन्यथा गीतगुणक्षतेः, तत उक्तं ' उरसि मन्द'मिति, ततो गायतां मूर्धानमभिन्नन स्वर उच्चस्तरो भवति, स्थानकं च द्वितीयं तृतीयं वा समधिरोहति, ततः शिरसि तारामित्युक्तं, शिरसश्च प्रतिनिहत्तः सन् स्वरः कण्ठे घुलति धुलश्चातिमधुरो भवति ततः कण्ठे वितारमित्युक्तं तिवितिसमयरेयारइयमिति, 'गुंजावककुहरोवगू' गुञ्जनं गुञ्जा गुञ्जापधानानि यानि अबक्राणि-शब्दमार्गाप्रतिकूलानि कुहराणि तेषूपगूढं गुञ्जावक्रफुहरोपगूढं, किमुक्तं भवति ?-तेषां देवकुमाराणां देवकुमारिकाणां च तस्मिन् प्रेक्षागृहमण्डपे गायता गीतं तेषु प्रेक्षागृहमण्डपस
Panorammaru
| भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~ 104~