________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [१५...] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक मूलं एवं अभयदेवसूरि-रचित वृत्ति:
| अनगा
प्रत
औपपातिकम्
सू०१५
सूत्रांक
२८॥
[१५]
दीप अनुक्रम
CEO-CSC
| पटवत् विशिष्टवक्तृवनस्पतिविसृष्टविविधप्रभूतसूत्रार्थपुष्पफलग्रहणसमर्थतया बुद्धिर्येषां ते तथा । 'पदाणुसारित्ति पदेनसूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्ति-अभ्यूहयन्तीत्येवंशीला पदानुसारिणः । 'संभिन्नसोपत्ति सम्भिन्नान् बहुभेदभिन्नान् शब्दान् पृथक् पृथक् युगपच्छृण्वन्तीति सम्भिन्नश्रोतारः, सम्भिन्नानि वा-शब्देन व्याप्तानि शब्दग्राहीणि, प्रत्येक वा शब्दादिविषयैः श्रोतांसि-सर्वेन्द्रियाणि येषां ते तथा । 'खीरासव'त्ति क्षीरवन्मधुरत्येन श्रोतां कर्णमनःसुखकरं वचनमाश्रवन्ति-क्षरन्ति ये ते क्षीराश्रवाः । 'महुआसव'त्ति मध्वाश्रवाः प्राग्वत् , नवरं मधुवत्सर्वदोषोपशमनिमित्तत्वादाल्हादकत्वाच्च तद्वचनस्य क्षीरानवेभ्यस्ते भेदेनोकाः । 'सप्पिासव'त्ति सर्पिराश्रवास्तथैव, नवरं श्रोतृणां स्वविषये स्नेहातिरेकसम्पादकत्वात् क्षीराश्रवमध्वाश्रवेभ्यो भेदेनोक्ताः । 'अक्खीणमहाणसीय'त्ति महानसम्-अन्नपाक| स्थानं तदाश्रितत्वाद्वाऽन्नमपि महानसमुच्यते, ततश्चाक्षीणं-पुरुषशतसहस्रेभ्योऽपि दीयमानं स्वयमभुक्तं सत् तथाविधलब्धिविशेषादत्रुटितं तच्च तन्महानसं च-भिक्षालब्धं भोजनमक्षीणमहानसं तदस्ति येषां ते तथा । 'उज्जुमईत्ति ऋग्वी सामान्यतो मनोमात्रग्राहिणी मतिः-मनःपर्यायज्ञानं येषां ते तथा । 'विउलमइत्ति विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुमाहिरवेन विस्तीर्णा मतिः-मनःपर्यायज्ञानं येषां ते तथा, तथाहि घटोऽनेन चिन्तितः स च द्रव्यतः सौवर्णादिः क्षेत्रतः पाटलिपुत्रकादिः कालतः शारदादिर्भावतः कालवर्णादिरित्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सामान्यत एव, तथा अर्द्ध तृतीयाकुलन्यूने मनुजक्षेत्र व्यवस्थितसंजिनां मनोयाहिका आद्याः, इतरे तु सम्पूर्ण इति । 'विउबणितिपत्त'त्ति विकुर्वणा-वैक्रियकरणलब्धिः सैव ऋद्धिस्ता प्राप्ता ये तथा । 'चारण'त्ति चरण-गमनं तदतिशयबदस्ति येषां ते
[१५]
॥२८॥
विविध-प्रकारस्य अनगारस्य वर्णन
~59~