SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (१२) प्रत सूत्रांक [१५] दीप अनुक्रम [१५] उपांगसूत्र-१ (मूलं+वृत्तिः) मूलं [ ... १५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः “औपपातिक” - चारणाः, ते च द्विधा जङ्घाचारणा विद्याचारणाश्च तत्राष्टमाष्टमेन क्षपतो यतेर्या लब्धिरुत्पद्यते यया च कञ्चिज्जङ्घाव्यापारमाश्रित्यैकेनैवोपपातेन त्रयोदशं रुचकवराभिधानं द्वीपं मेरुमस्तकं च यावद्गन्तुं प्रतिनिवृत्तश्च तत उत्पातद्वयेनेहागन्तुं समर्थो भवति तथा युक्ता आद्याः, या पुनः षष्ठं षष्ठेन क्षपत उत्पद्यत यया श्रुतविहितेषदुपष्टम्भतयोत्पातद्वयेना|ष्टमं नन्दीश्वराख्यं द्वीपं मेरुमस्तकं च गन्तुं ततः प्रतिनिवृत्तश्चेकेनैवोत्पातेने हागन्तुं समर्थो भवति तया युक्ता द्वितीया इति । 'विज्जाहर'त्ति प्रज्ञत्यादिविविधविद्याविशेषधारिणः । 'आगासातिवाइणो'त्ति आकाशं व्योमातिपतन्ति - अतिक्रामन्ति | आकाशगा मिविद्याप्रभावात् पादलेपादिप्रभावाद्वा आकाशाद्वा हिरण्यवृष्ट्यादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीला आकशातिपातिनः, आकाशादिवादिनो या-अमूर्तानामपि पदार्थानां साधन (ने) समर्थवादिन इति भावः । अप्पेगइआ कणगावलिं तवोकम्मं पडिवण्णा एवं एकावलिं खुड्डागसीह निक्कीलियं तवोकम्मं पडिवण्णा अप्पेगइयामहालयं सहनिकीलियं तवोकम्मं पडिण्णा भद्दपडिमं महाभद्दपडिमं सव्वतोभद्दपडिमं आयंबिलवद्धमाणं तवोकम्मं पडिवण्णा 'कणगावलिं तवोकम्मं पडिवण्णगत्ति कनकमयमणिकमयो भूषणविशेषः, कल्पनया तदाकारं यत्तपस्तत्कनकावलीत्युच्यते, तत्स्थापना चैवम् चतुर्थ पष्ठमष्टमं चोत्तराधर्येणावस्थाप्य तेषामधोऽष्टावष्टमानि चत्वारि चत्वारि पङ्किद्वयेनावस्थापनीयानि, उभयतो वा रेखाचतुष्केण नव कोष्ठकान्विधाय मध्यमे शून्यं विधाय शेषेष्वष्टसु तानि स्थापनीयानि, ततस्तस्याधोऽधः चतुर्थादीनि चतुस्त्रिंशत्तमपर्यन्तानि ततः कनकावलिमध्यभागकल्पनया चतुस्त्रिंशदष्टमानि तानि चोत्तराधर्येण विविध प्रकारस्य अनगारस्य वर्णनं - (तपोकर्म आदि अनुसार) For Para Use Only ~60~
SR No.004112
Book TitleAagam 12 AUPAPAATIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages244
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aupapatik
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy