________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [२] ---------------------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सभक्ष्यानपानमाल्यानुलेपनानि च प्रदीपाश्च ज्वलितोज्वला: सुगन्धिधूपस्यापकारश्च-अपकरणं-अङ्गारोप-1 रिक्षेपः पुष्पफलानि च तैः समृद्धाः-सम्पूर्णा ये शीर्पोपहारास्ते तथा तान्, दत्त चेति प्रकृतं, तथा प्रायश्चित्तानि-प्रतिविधानानि कुरुत, केन?-प्राणातिपातकरणेन-हिंसया बहुविधेन-नानाविधेन, किमर्थमित्याहविपरीतोत्पाता:-अशुभसूचकाः प्रकृतिविकाराः दुःखमाः पापशकुनाश्च प्रतीताः असौम्यग्रहचरितं च-क्रूरग्रहचारः अमङ्गलानि च यानि निमित्तानि-अङ्गस्फुरितादीनि एतेषां द्वन्द्वस्तत एतेषां प्रतिघातहेतोः-उपहमननिमित्तमिति, तथा बृत्तिच्छेदं कुरुत मा दत्त किश्चिद्दानमिति, तथा सुष्टु हत २, इह तु सम्भ्रमे द्वित्वं, सष्ठ छिन्नो भिन्नश्च विवक्षितः कश्चिदिति एवमुपदिशन्तः एवंविधं नानाप्रकारं पाठान्तरे वा त्रिविधं-त्रिप्रकारं कुर्वन्त्यलीकं द्रव्यतोऽनलीकमपि सत्त्वोपघातहेतुत्वाद् भावतोऽलीकमेव, त्रैविध्यमेवाह-मनसा वाचा |'कम्मुणा यत्ति कायक्रियया, तदेतावता यथा क्रियतेऽलीकं येऽपि तस्कुर्वन्ति एतद्द्वारद्वयं मिश्रं परस्परेणोक्तं, अथ ये ते कुर्वन्ति तान् भेदेनाह-अकुशलाः-वक्तव्यावक्तव्यविभागानिपुणा अनार्या:-पापकर्मणो दूरमयाताः 'अलियाणत्ति अलीका आज्ञा-आगमो येषां ते तथा, अत एव अलीकधर्मनिरताः, अलीकासु कथाखभिरममाणाः, तथा तुष्टा 'अलियं करेत्तु होति य बहुप्पगार मित्यत्र तुष्टा भवन्ति चालीकं बहुप्रकारं कृत्वा-उक्त्वेत्येवमक्षरघटना कार्यति । तथा अलीकविपाकप्रतिपादनायाह
दीप अनुक्रम [११]
SAREara
n a
~82