________________
आगम
(१०)
प्रत
सूत्रांक [6]
दीप
अनुक्रम
[११]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [२]
मूलं [७]
श्रुतस्कन्ध: [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०] अंग सूत्र [१०] " प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्र.व्या. ७
Jan Eaton
- लज्जारहितं लोकगर्हणीयं प्रतीतं, 'वधवन्धपरिक्लेशबहुलं' तत्र वधो-यष्ट्यादिताडनं बन्धः-संयमनं परिक्लेश:उपतापस्ते बहुलाः प्रचुरा यत्र तत्तथा भवन्ति चैतेऽसत्यवादिनामिति, जरामरणदुःखशोकेनेमं जरादीनां मूलमित्यर्थः, अशुद्धपरिणामेन संश्लिष्टं-सङ्केशवद्यत्तत्तथा, भणन्ति के ? - अलीको योऽभिसन्धिः - अभिप्रा यस्तत्र निविष्टा अलीकाभिसन्धिनिविष्टाः असद्गुणोदीरकाचेति व्यक्तं सद्गुणनाशकाश्च तदपलापका इत्यर्थः, तथा हिंसया भूतोपघातो यत्रास्ति तद्धिंसाभूतोपघातिकं वचनं भणन्तीति योगः, अलीकसम्प्रयुक्ताःसम्प्रयुक्तालीकाः, कथम्भूतं वचनं ? - सावयं-गर्हितकर्म्मयुक्तं अकुशलं जीवानामकुशलकारित्वात् अकुशलनरप्रयुक्तत्वाद्वा, अत एव साधुगर्हणीयं अधर्म्मजननं भणन्तीति पदत्रयं प्रतीतं कथम्भूता इत्याह ?-अनधिगतपुण्यपापा:- अवेदितपुण्यपापकर्म्महेतव इत्यर्थः, तदधिगमे हि नालीकवादे प्रवृत्तिः सम्भवति, पुनश्च अज्ञानोत्तरकालं अधिकरणविषया या क्रिया-व्यापारस्तत्प्रवर्त्तकाः, तत्राधिकरणक्रिया द्विविधा-निर्वर्त्तना |धिकरणक्रिया संयोजनाधिकरणक्रिया च तत्राद्या खड्डादीनां तन्मुष्ट्यादीनां च निर्वर्त्तनलक्षणा, द्वितीया तु तेषामेव सिद्धानां संयोजनलक्षणेति, अथवा तो यकाभिरधिक्रियते प्राणिनः ताः सर्वा अधिकरणक्रिया इति, बहुविधमनर्थहेतुत्वात् अपम-उपमर्द्दनं आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिकं जल्पन्तो भाषमाणाः, एतदेवाह - महिपान् शूकरांश्च प्रतीतान् साधयन्ति प्रतिपादयन्ति घातकानां तद्धिसकानां, शशमशयरोहितांश्च साधयन्ति वारिणां शशादय आटव्याः चतुष्पदविशेषाः, वागुरा-मृगबन्धनं
For Penal Use Only
~76~