________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [२] ----------------------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
मिति, तथा अपरे केचन अधर्मतः-अधर्ममङ्गीकृत्य राजदुष्ट-नृपविरुद्ध अभिमरोऽयमित्यादिकं अभ्याख्यानं-परस्याभिमुखं दूषणवचनं भणन्ति-ब्रुवते अलीकं-असत्यं, अभ्याख्यानमेव दर्शयितुमाह-'चोर' इति भणन्तीति प्रकृतं, कं प्रतीत्याह-अचौर्यं कुर्वन्तं, चौरतामकुर्वाणमित्यर्थः, तथा डामरिको-विग्रहकारीति अपिचेति समुच्चये भणन्तीति प्रकृतमेवेति, एकमेक-चौरादिकं प्रयोजनं विनैव, कथम्भूतं पुरुषं प्रती
त्याह-उदासीनं-डामरादीनामकारणं तथा दुःशील इति च हेतोः परदारान् गच्छतीत्येवमभ्याख्यानेन मलिKानयन्ति-पांसयन्ति शीलकलितं-सुशीलतया परदारविरतं तथा अयमपि न केवलः स एव गुरुतल्पक इति|दुर्विनीतः, अन्ये-केचन मृषावादिन एव निष्पयोजन भणन्ति उपनन्तः-विध्वंसयन्तः ततिकीयादिकमिति गम्यते, तथा मित्रकलत्राणि सेवते-मुहहारान् भजते, अयमपि न केवलमसौ लुप्तधर्मो-विगतधर्म इति 'इमोवि'त्ति अयमपि, विश्रम्भघातकः पापकर्मकारीति च व्यक्तं, अकर्मकारी-खभूमिकानुचितकर्मकारी अगम्यगामी-भगिन्याद्यभिगन्ता अयं दुरात्मा-दुष्टात्मा 'यहुएम य पावगेसु'त्ति बहुभिश्च पातकर्युक्त इत्येवं जल्पन्ति मत्सरिण इति व्यक्तं, भद्रके वा-निर्दोषे तेषां वाऽलीकवादिनां विनयादिगुणयुक्ते पुरुषे वाशब्दादभद्रके वा एवं जल्पन्तीति प्रक्रमः, किम्भूतास्ते इत्याह-गुणः-उपकारः कीर्तिः-प्रसिद्धिः लेहः-प्रीतिः |परलोको-जन्मान्तरं एतेषु निष्पिपासा-निराकासा येते तथा एवं-उक्तक्रमेण एतेऽलीकवचनदक्षाः परदोषोत्पादनप्रसक्ताः वेष्टयन्तीति पदत्रयं व्यक्तं, अक्षितिकवीजेन-अक्षयेण दुःखहेतुनेत्यर्थः, आत्मानं खं कर्म
दीप अनुक्रम [११]
murary.org
~74~