________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्धः [१], --------- ------------- अध्ययनं [२] -------- ---------- मूलं [७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
**
%
प्रत
।
%
%
%
रूपमित्यभ्युपगमात् , तथा 'अणुवलेवउत्ति अनुपलेपकः कर्मबन्धनरहितः, आह च-“यस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित, संसरति बध्यते मुच्यते च नानाश्रया प्रकृति"रिति, असञ्चैतत् , मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्, पाठान्तरं-'अन्नो अलेव'त्ति तत्र अन्यश्च-अपरो लेपतः कर्मबन्धनादिति, एतदप्यसत्, कथंचिदिति शब्दानुपादानात् , 'इत्यपिच' इतिः-उपप्रदर्शने अपिचेति अलीकवादान्तरसमुच्चयार्थः, तथा एवं-वक्ष्यमाणप्रकारेण 'आहंसुत्ति अवते स्म असदभावं-असन्तमर्थ यदुन यदेव-सामान्यतःसर्वमित्यर्थः इह-अस्मिन् किश्चिद्-अविवक्षितविशेष जीवलोके-मर्त्यलोके दृश्यते सुकृतं वा आस्तिकमतेन सुकृतफलं | सुखमित्यर्थः दुष्कृतं वा दुष्कृतफलं दुःखमित्यर्थः, एतत् 'जइच्छाए वत्ति यदृच्छया वा स्वभावेन चापि दैवतमभावतो वापि-विधिसामर्थ्यतो वापि भवति, न पुरुषकारः कर्म वा हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदृच्छा, पठ्यते च-"अतर्कितोपस्थितमेव सर्व, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः ॥१॥" तथा "सत्यं पिशाचाः स्म वने वसामो, भरी करानैरपि न स्पृशामः । यदृच्छया सिद्ध्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ॥१॥” इति, खभावः पुनर्वस्तुतः खत एव तथापरिणतिभावः, उक्तं च-"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । खभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः? ॥१॥” इति, दैवं तु विधिरिति लौकिकी भाषा, तत्रोक्तं-"प्राप्तव्यमर्थ लभते मनुष्यः, किं कारणं ? दैवमलनीयम् । तस्मान्न शोचामि
%
%
दीप अनुक्रम [११]
%
%
%
Hamarary.ou
472