________________
आगम
(१०)
**=*=
प्रत
सूत्रांक [8]
दीप
अनुक्रम [८]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [१]
मूलं [४]
श्रुतस्कन्ध: [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
तीन्द्रियभूतभव्यभविष्यदर्थविषयस्फुटप्रतिभासप्रकाशनीयमभिहितं वस्तु 'आहंसु'ति आख्यातवान् 'ज्ञातकुलनन्दनः ज्ञाताः क्षत्रियविशेषाः तत्कुलनन्दनः- तद्वंशसमृद्धिकरः महात्मेति प्रतीतं, जिनस्तु-जिन एव | वीरवरनामधेयः —– वीरवरेति प्रशस्तनामा, तथा कथितवांश्च प्राणवधस्य फलविपाकं, अध्ययनार्थस्य महावीराभिहितत्वे प्रतिपादितेऽपि यत् पुनस्तत्फलविपाकस्य वीरकथितत्वाभिधानं तत्प्राणवघस्यैकान्तिकाशुभफलत्वेनात्यन्त परिहाराविष्करणार्धमिति, अथ शास्त्रकार: प्राणवधस्य स्वरूपं प्रथमद्वारोपदर्शितमपि निगमनार्थ पुनर्दर्शयन्नाह एष स प्राणवधोऽभिहितः योऽनन्तरं स्वरूपतः पर्यायतः विधानतः फलतः कर्तृतश्च वक्तुं प्रतिज्ञात आदावासीत् किम्भूत इत्याह- चण्डा - कोपनः तत्प्रवर्त्तितत्वाचण्डः रौद्ररसप्रवर्त्तितत्वात् रौद्रः क्षु द्रजनाचरितत्वात् क्षुद्रः अनार्यलोक करणीयत्वादनार्यः घृणाया अन्त्राविद्यमानत्वान्निर्घृणः निःशुकजनकृतत्वानृशंसः महाभयहेतुत्वात् महाभयः 'बीहणउत्ति भयान्तरप्रवर्त्तितत्वात् त्रासकः उत्रासहेतुत्वात् अन्याय्यो-न्यायादपेतत्वात् उद्देजनकश्च उद्वेगहेतुत्वात् निरवकाङ्गः परप्राणापेक्षावर्जित इत्यर्थः, निर्द्धम्मों-धम्मदपक्रान्तः निष्पिपासः - वध्यं प्रति स्नेहविरहात् निष्करुणो-विगतद्यः निरयवासगमननिधन इति व्यक्तं मोहमहाभयप्रकर्षकः- तत्प्रवर्त्तकः मरणेन वैमनस्यं दैन्यं यत्र स मरणवैमनस्यः । प्रथममधर्मद्वारं-मृषावादाद्यपेक्षयेद्माद्यमाश्रवद्वारं समाप्तं तद्वक्तव्यतापेक्षया निष्ठां गतं इतिशब्दः समाप्तौ ब्रवीमि प्रति । | पादयामि तीर्थकरोपदेशेन न खमनीषिकयेति एतच सुधर्मस्वामी जम्बूस्वामिनः स्ववचसि सर्वज्ञवचना
For PanalPrata Use Only
~54~