________________
आगम
(१०)
प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [9] ---------------------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२९]
दीप अनुक्रम [४५]
एवाह-विगतरागद्वेषमोहः, कूर्म इव इन्द्रियेषु गुप्तः यथा हि कच्छपः ग्रीवापञ्चमैश्चतुर्भिः पदैः कदाचिद् गुप्तो भवतीत्येवं साधुरपीन्द्रियेषु, इन्द्रियानाश्रित्येत्यर्थः, जात्यकाञ्चनमिव जातरूपः रागादिकुद्रव्यापोहाल्लब्धखरूप इत्यर्थः, पुष्करपत्रमिव-पद्मदलमिव निरुपलेपो भोगगृद्धिलेपापेक्षया, चन्द्र इव सौम्यतया पाठान्तरेण सौम्यभावतया-सौम्यपरिणामेन अनुपतापकतया सूर इव दीसतेजाः-तपस्तेजः प्रतीत्य अचलो-निश्चलः परीपहादिभिः यथा मन्दरो गिरिवरो मेरुरियर्थः अक्षोभ:-क्षोभवर्जितः सागर इव स्तिमितः भावकल्लोलर- हितः तथा पृथिवीच सर्वस्पर्शविषहः शुभाशुभस्पर्शेषु समचित्त इत्यर्थः, 'तवसाविय'त्ति तपसाऽपि च हेतुशाभूतेन भस्मराशिच्छन्न इव जाततेजा-वहिः, भावनेह-यथा भस्मच्छन्नो बहिरन्तर्वलति बहिम्लानो भवती-II इत्येवं श्रमणः शरीरमाश्रित्य तपसा म्लानो भवति अन्तः शुभलेश्यया दीप्यत इति, ज्वलितहुताशन इव
तेजसा ज्वलन् साधुपक्षे तेजो-ज्ञानं भावतमोविनाशकत्वात्, गोशीर्षचन्दनमिव शीतलो मनासन्तापो
पशमनात् सुगन्धिश्च शीलसौगन्ध्यात् इदक इव-नद इव सम एवं समिकः खभावो यस्य स तथा, यथा| सहि वाताभावे हदः समो भवति अनिम्नोन्नतजलोपरिभाग इत्यथैः तथा साधुः सत्कारन्यत्कारयोरनुन्नतानिम्नभावतया समो भवतीति, उष्टमुनिर्मलमिवादर्शमण्डलतलं प्रकटभावेन-निर्मायतया अनिगहित
भावेन सुखभावः-शोभनखरूपः शुद्धभावो वेति शोण्डीर:-चारभटः कुञ्जर इव परीषहसैन्यापेक्षया वृषभ Kाइव जातस्थामा-अङ्गीकृतमहाबतभारोद्वहने जातसामर्थ्यः सिंहो वा यथा मृगाधिप इति खरूपविशेषणं
~318~