________________
आगम
(१०)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [४५]
प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [५]
मूलं [२९]
श्रुतस्कन्ध: [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
ग्रहीतव्यं चेति, किन्तदित्याह - भाषणभंडोवहिउवगरणं, एवं अनेन न्यायेन संयतः -संयमी विमुक्त:त्यक्तधनादिः निःसङ्गः- अभिष्वङ्गवर्जितः निर्गता परिग्रहे रुचिर्यस्य स तथा निर्ममो-ममेतिशब्दवर्जी निःस्नेहबन्धनश्च यः स तथा, सर्वपापविरतः, वास्यां- अपकारिकायां चन्दने च उपकारके समान:- तुल्यः कल्पः| समाचारो विकल्पो वा यस्य स तथा, द्वेषरागविरहित इत्यर्थः, समा-उपेक्षणीयत्वेन तुल्या तृणमणिमुक्ता यस्य स तथा, लेष्टौ काञ्चने च समः उपेक्षकत्वेन तुल्यो यः स तथा ततः कर्मधारयः, समश्च हर्षदैन्याभावात् मानेन पूजया सहापमानता तस्यां शमितं-उपशमितं रजः पापं रतं वा रतिर्विषयेषु रयो वा औत्सुक्यं येन शमितरजाः शमितरतः शमितरयो वा शमितरागद्वेषः समितः समितिषु पञ्चसु सम्यग्दृष्टि:सम्यग्दर्शनी, समश्च यः सर्वप्राणभूतेषु तत्र प्राणा-द्वीन्द्रियादित्रसाः भूतानि - स्थावराः, 'से छु समणेत्ति स एव श्रमण इति वाक्ये निष्ठा, किंभूतोऽसावित्याह श्रुतधारकः ऋजुकः - अवक्रः उद्यतो वा अनलसः संयमी, सुसाधुः सुष्ठु निर्वाणसाधनपुरः शरणं त्राणं सर्वभूतानां पृथिव्यादीनां रक्षणादिना सर्वजगद्त्सलः सर्वजगद्वात्सल्यकर्त्ता हित इत्यर्थः, सत्यभाषकश्चेति, संसारान्ते स्थितच 'संसारसमुच्छिण्णे' त्ति समुच्छिन्नसंसारः सततं सदा मरणानां पारगः सर्वदैव तस्य न बालादिमरणानि भविष्यन्तीत्यर्थः, पारगश्च सर्वेषां संशयानां छेदक इत्यर्थः प्रवचनमातृभिरष्टाभिः समितिपञ्चकगुप्तित्रयरूपाभिः करणभूताभिरष्टक३ रूपो यो ग्रन्थिस्तस्य विमोचको यः स तथा अष्टमानमथनः - अष्टमस्थाननाशकः खसमयकुशलश्च-ख
Education International
For Parts Only
~316~