________________
आगम
(१०)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[४५]
श्रुतस्कन्ध: [२],
मूलं [२९]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्रश्नव्याक२० श्रीअभयदेव० वृत्तिः
॥ १५६ ॥
प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [५]
लखण्डे पात्रं निधीयते पटलानि - भिक्षावसरे पात्रप्रच्छादकानि वखण्डानि 'तिन्नेव'त्ति तानि च यदि सर्वस्तोकानि तदा त्रीणि भवन्ति, अन्यथा पञ्च सप्त चेति, रजस्राणं च पात्रवेष्टनचीवरं गोच्छकः- पात्र वस्त्रप्रमार्जन हेतुः कम्बल कलरूपः त्रय एव प्रच्छादा द्वौ सौत्रिकौ तृतीय ऊर्णिकः रजोहरणं प्रतीतं चोलपट्टकः- परिधानवस्त्रं मुखानन्तर्क-मुखवस्त्रिका एषां द्वन्द्वः तत एतान्यादिर्यस्य तत्तथा, एतदपि संयमस्योपबृंहणार्थ - उपष्टम्भार्थ न परिग्रहसंज्ञया, आह- "जंपि वत्थं च पायं वा, कंबलं पायपुंछणं । तंपि संजम४ लट्ठा, धारंति परिहरति य ॥ १ ॥ परिभुञ्जत इत्यर्थः, 'न सो परिग्गहो वृत्तो, नायपुत्त्रेण ताइणा | मुच्छा परिग्गहो बुत्तो, इति तं महेसिणा ॥ २ ॥" अम्मद्गुरुणेत्यर्थः [ यदपि वस्त्रं च पात्रं वा कम्बलं पादप्रोच्हनं । तदपि संयमलज्जार्थं धारयन्ति परिभुञ्जते च ॥ १ ॥ न स परिग्रह उक्तो ज्ञातपुत्रेण तायिना । मूर्च्छा परिग्रह उक्त इत्युक्तं महर्षिणा ॥ २ ॥ ] तथा वातातपदंशमशकशीतपरिरक्षणार्थतया उपकरणं-रजोहरणादिकं रागद्वेषरहितं यथा भवतीत्येवं परिहर्त्तव्यं परिभोक्तव्यं संयतेन नित्यं एवमपरिग्रहताऽस्य भवति, आह च - " अज्झत्थविसोहीए उवगरणं बाहिरं परिहरतो । अपरिग्गहोत्ति भणितो जिणेहिं तेलोकदंसीहिं ॥ १ ॥ [ अध्यात्मविशोध्या बाह्यमुपकरणं परिभुञ्जन अपरिग्रह इति भणितो जिनैत्रैलोक्यदर्शिभिः ॥१॥] तथा प्रत्युपेक्षणं-चक्षुषा निरीक्षणं प्रस्फोटनं-आस्फोटनं आभ्यां सह या प्रमार्जना-रजोहरणादिक्रिया सा तथा तस्यां 'अहो य राओ यत्ति रात्रिन्दिवं अप्रमत्तेन- अप्रमादिना भवति सततं निक्षेप्तव्यं मोक्तव्यं
Education International
For Para Use Only
~315~
५धर्मद्वारे परिग्रहविरतौ संव
रपादपः
भिक्षात्र
सन्निधि र्भावनाच सू० २९
॥ १५६ ॥