________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], --------- ------------- अध्ययनं [१] -------- ---------- मूलं [३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
अनल:-तेजस्कायः अनिलो-वायुकायस्तृणवनस्पतिगणो-वादरवनस्पतीनां समुदाय एतन्निमृतांश्च-एतदुप-14 जीवकांश्च सानिति हृदयं 'तम्मयतजिय'त्ति तेषामनलानिलतृणवनस्पतिगणानां विकारास्तन्मया अनलकायिकादय एव तथा तेषामेव-अनलादीनां जीवास्तजीवाः तद्योनिकानसा इत्यर्थः, तन्मयाश्च तज्जीवाश्रेति तन्मयतज्जीवास्तश्चैिव, पाठान्तरेण तन्मयजीवाश्चेति, किंभूतांस्तान् ?-'तदाहारे'त्ति ते-पृथिव्यादय आ-14 धारो येषां ते तदाधारास्तानेव चा पृथिव्यादीनाहारयन्तीति तदाहारास्तान, तेषामेव पृथिव्यादीनां परिणता वर्णगन्धरसस्पर्शी बोन्दि:-शरीरं सैव रूपं-स्वभावो येषां ते तथा तान् , अचाक्षुषान्-न चक्षुषा दृश्यांश्चाक्षु-I षांश्च-चक्षुाह्यान, कानेवंविधानित्याह-त्रसकाया-वसनामकम्मोदयवर्तिजीवराशिस्तत्र भवास्त्रसकायिकाः । तान्, कियत इत्याह-असङ्ख्यातान् , तथा स्थावरकायांश्च-सूक्ष्माश्च बादराश्च तत्तन्नामकम्मोदयवर्तिनः, प्रत्येकशरीरमिति नामकर्मविशेषो येषां ते प्रत्येकशरीरनामानस्ते च साधारणाश्व-साधारणशरीरनामकर्मोदयवर्तिन इति द्वन्द्वोऽतस्तान्, कियतः?-अनन्तान् साधारणानेव, शेषस्थावराणामसंख्येयत्वात्, जीवानिति योगा, किमिति इत्याह-प्रन्ति, किम्भूतान ?-अविजानतश्च खवधं, परिजानतश्च-सुखदुःखैरनुभवतः एकेन्द्रियान, अधवा खवधमजानतः एकेन्द्रियान् तमेव परिजानतस्त्रसानिति जीवान-जन्तून् एभिर्विविधैः कारणैः-प्रयोजनैः किं तेत्ति किं तत् तद्यथेति वा, कर्षणं कृषिः पुष्करिणी-पुष्करवती चतुष्कोणा वा वापी|निष्पुष्करा वृत्ता वा 'वप्पिण'शि केदाराः कृपसरस्तडागाः प्रतीताः चिति:-मित्यादेश्चयनं मृतकदहनार्थे।
दीप
अनुक्रम
[७]
~264