________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [३] ---------------------- मूलं [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२६]]
दीप अनुक्रम
स तादृशः-पूर्वोक्तरूपः 'नाराहए वयमिण ति नाराघयति न निरतिचारं करोति व्रतं-महाव्रतमिदं-अदत्तादानविरतिरूपं, खाम्यादिभिरननुज्ञातकारित्वात्तस्येति । 'अह केरिसएत्ति अथ परिप्रश्नार्थः, कीदृशः पुनः |'आई'ति अलङ्कारे आराधयति व्रतमिदं?, इह प्रश्ने उत्तरमाह-जे से'इत्यादि योऽसावुपधिभक्तपानानां दानं च सङ्ग्रहणं च तयोः कुशलो-विधिज्ञो यः स तथा, बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यहालदुर्बलग्लानवृद्धक्षपर्क तत्तथा तत्र विषये चैयावृत्त्यं करोतीति योगः, तथा प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात् प्रवृत्त्यादिषु, तत्र प्रवृत्तिलक्षणमिदं-"तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुंच नियत्तेइ गणतत्तिल्लो पवित्ती उ॥१॥[तपासंयमयोगेषु यो यत्र योग्यस्तं तत्र प्रवर्तयति । असहं च निवर्त्त-| यति गणचिन्तकः प्रवृत्तिः॥१॥] इतरी प्रतीती, तथा 'सेहे'त्ति शैक्षे-अभिनवप्रवजिते साधर्मिके-समान-| धर्मके लिङ्गप्रवचनाभ्यां तपखिनि-चतुर्थभक्तादिकारिणि तथा कुलं-गच्छसमुदायरूपं चन्द्रादिकं गण:कुलसमुदायः कोटिकादिकः सङ्कः-तत्समुदायरूपः चैत्यानि-जिनप्रतिमा एतासां योऽर्थः-प्रयोजनं स तथा तत्र च निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्य-व्यावृत्तकर्मरूपमुपष्टम्भनमित्यर्थः अनिश्रितं-कीर्त्यादिनिरपेक्ष दशविधं-दशप्रकारं, आह् च-"वेयावचं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपायणमेस भावत्यो ।॥ १॥ आयरिय १ उवज्झाए २ थेर ३ तबस्सी ४ गिलाण ५ सेहाणं । साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायब्वं ॥२॥" ति [वैयावृत्त्यं व्याप्तभावः इह धर्मसाधननि
(३८)
~254~