________________
आगम
(१०)
प्रत
सूत्रांक
[२४]
दीप
अनुक्रम
[३६]
श्रुतस्कन्धः [२],
अध्ययनं [२]
मूलं [२४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०] अंग सूत्र [१०] " प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
या. २०
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
-
एव स्यातां नापरस्येति भावः, सुगतिपथदेशकं च लोकोत्तमं व्रतमिदमिति व्यक्तं, विद्याधरगगनगमनविधानां | साधनं नासत्यवादिनस्ताः सिध्यन्तीति भावः स्वर्गमार्गस्य सिद्धिपथस्य च देशकं प्रवर्त्तकं यत्तत्तथा अवितथं वितथरहितं 'तं सर्वं उज्जुगं'ति सत्याभिधानं यद् द्वितीयं संवरद्वारमभिहितं तदृजुकं ऋजुभावप्रवत्तितत्वात् तथा अकुटिलं अकुटिलखरूपत्वात् भूतः - सद्भूतोऽर्थः - अभिषेयो यस्य तद्भूतार्थ अर्थतः प्रयोजनतो विशुद्धं निर्दोषं प्रयोजनापन्नमिति भावः, उद्योतकरं - प्रकाशकारि, कथं ? यतः प्रभाषकं प्रतिपादकं भवति केषां कस्मिन्नित्याह-सर्वभावानां जीवलोके - जीवाधारे क्षेत्रे, प्रभाषकमिति विशिनष्टि- अविसंवादि-अध्यभिचारि यथार्थमितिकृत्वा मधुरं कोमलं यथार्थमधुरं प्रत्यक्षं दैवतमिव-देवतेव यत्तदाचर्यकारक चितथिस्मयकर कार्यकारकं तदीदृशं केषु केषामित्याह-अवस्थान्तरेषु अवस्थाविशेषेषु बहुषु मनुष्याणां यदाह"सत्येनाग्निर्भवेच्छीतो, गाधं दत्तेऽम्बु सत्यतः । नासिरिछनन्ति सत्येन, सत्याद्रज्यते फणी ॥ १ ॥ एतदेवाह - सत्येन हेतुना महासमुद्रमध्ये तिष्ठन्ति न निमज्जन्ति, 'मूढाणियावि'त्ति मृदं नियतदिग्गमनाप्रत्ययं 'अ' नियंति अग्रे तुण्डं अनीकं वा तत्प्रवर्त्तकं जनसैन्यं येषां ते तथा तेsपि पोता-बोधिस्थाः, तथा सत्येन च उदकसम्भ्रमेऽपि सम्भ्रमकारणत्वादुदकलवः उदकसम्भ्रमस्तत्रापि 'न बुज्झइति वचनपरिणामान्नोद्यन्ते-न प्लाव्यन्ते न च म्रियन्ते स्ताघं च-गाधं च ते लभन्ते, सत्येन चाग्निसम्भ्रमेऽपि प्रदीपनकेऽपि न दह्यन्ते, कजुका-आर्जवोपेताः मनुष्या नराः सत्येन च तप्ततैल पुलोसीसकानि प्रतीतानि 'छिवंति'त्ति छुषंति धार
Education Internationa
For Par Use Only
~232~