________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [२], ------------------- अध्ययनं [१] -------------------- मूलं २१-२३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१-२३]
गाथा:
पिक:--दुग्धक्षौद्रघृतवर्जकैः [अमद्यमांसाशिभिः] 'ठाणाइएहिंति स्थान-ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वतनस्थानं तदभिग्रहविशेषेणाददति-विदधति ये ते तथा तैः, एतदेव प्रपञ्चयति-प्रतिमास्थायिभिः' प्रतिमया-कायोत्सर्गेण भिक्षुप्रतिमया वा मासिक्यादिकया तिष्ठन्ति येते तथा तैः, स्थानमुत्कटुकं येषां ते स्थानोत्कटुकास्तैः वीरासनं-भून्यस्तपादस्य सिंहासनोपवेशनमिव तदस्ति येषां ते वीरासनिकास्तैः निषद्या-14 समपुतोपवेशनादिका तया चरन्तीति नैषयिकास्तैः, दण्डस्येवायतं संस्थानं घेषामस्ति ते दण्डायतिकास्तैः लगंडं-दुःसंस्थितं काष्ठं तच्छिरापाष्र्णीनां भूलग्नेन शेरते ये ते लगण्डशायिनस्तैः, उक्तं च-“चीरासणं तु सीहासणे व्व जह मुक्कजाणुग [मुत्कलपाद:> णिविट्ठो । दंडगलगंडउवमा आयत कुजे य दोपहंपि ॥१॥" [दण्डे आयतः लगण्डे कुब्जा] एक एव पाश्चों भूम्या सम्बध्यते येषां न द्वितीयेन पार्थेन भवन्तीत्येकपाचिंकास्तैः, आतापनैः-आतापनाकारिभिरिति, आतापना च त्रिविधा, यत आह-"आयावणा उ तिविहा भाउकोसा मज्झिमा जहन्ना य । उकोसा उणिवन्ना णिसन्न मज्झा ठिय जहना ॥१॥" [आतापना तु त्रिविधा
उत्कृष्टा मध्यमा जघन्या च । उत्कृष्टा तु सुप्तस्य मध्यमा निषण्णस्य स्थितस्य जघन्या] अप्रावृतैः-प्रावरणवर्जितैः 'अनिट्ठभएहिंति अनिष्ठीवकर्मख श्लेष्मणोऽपरिष्ठापकः 'अकण्डूयकैः' अकण्डूयनकारकै: 'धूतकेशश्मश्रुरोमनखे धूता:-संस्कारापेक्षया त्यक्ताः केशा:-शिरोजाः इमणि-कृर्चाः केशाः रोमाणि-कक्षादिलोमानि नखाच प्रसिद्धा यैस्ते तथा तैः सर्वगात्रप्रतिकर्मविप्रमुक्तः अभ्यादिवर्जनात् 'समणुचिन्न'सि सम-|
दीप अनुक्रम [३०-३५]
~216~