________________
आगम
(१०)
प्रत
सूत्रांक [२१-२३]
+
गाथा:
दीप
अनुक्रम [ ३०-३५]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
श्रुतस्कन्धः [२],
अध्ययनं [१]
मूलं [२१-२३] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०] अंग सूत्र [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
| पयकोडीए पलालभूयाए । जत्थेत्तियं न नायं परस्स पीडा न कायव्वा ॥ १ ॥ [किं तया पठितया पदकोट्या पलालभूतया । पत्रेयत् न ज्ञातं परस्य पीडा न कर्त्तव्या ॥१॥ ] कल्याणं कल्याणप्रापकत्वात् मङ्गलं दुरितोपशान्तिहेतुत्वात् ३०, प्रमोदः प्रमोदोत्पादकत्वात् विभूतिः सर्वविभूतिनिबन्धनत्वात् रक्षा जीवरक्षणस्वभावत्वात सिद्ध्यावासः मोक्षवासनिबन्धनत्वात् अनाश्रवः कम्मबन्धनिरोधोपायत्वात् केवलिनां स्थानं केवलिनामहिं सायां व्यवस्थितत्वात् 'सिवसमितिसीलसंजमोत्ति य' शिवहेतुत्वेन शिवं समितिः- सम्यक्प्रवृत्तिस्तद्रूपत्वा| दहिंसा समितिः शीलं -समाधानं तद्रूपत्वाच्छीलं संयमो-हिंसात उपरमः इतिः- उपप्रदर्शने चः समुच्चये ४०, 'सीलपरिघरो' त्ति शीलपरिगृहं चारित्रस्थानं संवरश्च प्रतीतः गुप्तिः-अशुभानां मनःप्रभृतीनां निरोधः विशि|ष्टोऽबसायो- निश्रयो व्यवसायः उच्छ्रयश्च भावोन्नतत्वं यज्ञो भावतो देवपूजा आयतनं गुणानामाश्रयः यजन- अभयस्य दानं यतनं वा प्राणिरक्षणं प्रयत्नः- अप्रमादः प्रमादवर्जनं आश्वासः - आश्वासनं प्राणिनामेव ५० विश्वासो विश्रंभः 'अभउ'त्ति अभयं सर्वस्यापीति प्राणिगणस्य 'अमाघातः' अमारिः चोक्षपवित्रा एकार्थशब्दद्वयोपादानात् अतिशयपवित्रा शुचिः-भावशौचरूपा, आह च - "सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पञ्चमम् ॥ १ ॥” इति पूता-पवित्रा पूजा वा भावतो देवताया अर्चनं विमलः प्रभासा च तन्निबन्धनत्वात् 'निम्मलयर'ति निर्मलं जीवं करोति या सा तथा अतिशयेन वा निर्मला निर्मलतरा ६०, इतिः नाम्नां समाप्तौ, एवमादीनि एवंप्रकाराणि निजकगुणनिर्मितानि यथार्थानीत्यर्थः,
Internationa
For Pale Only
~ 210~