SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] “प्रश्नव्याकरणदशा” - अंगसूत्र -१० ( मूलं + वृत्ति:) अध्ययनं [४] मूलं [... १५] श्रुतस्कन्ध: [१]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०] अंग सूत्र [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः हंसवधूनां विशद्वेषताभणनेन कनकगिरिशिखर संश्रितत्व भणने नोत्पातनिपातभणनेन च मणिकनकदण्डातिघवलचञ्चचामरोप मानतो तेति, सललितैः - लालित्ययुक्तः नरपतिश्रीसमुदयप्रकाशनकरैः, राजलक्ष्मीसमुदायो हि तैर्लक्ष्यते, वरपत्तनोङ्गतैः, पत्तनविशेषनिर्मितं हि शिल्पिविशेषात् प्रधानं भवति, अथवा वरपत्तनादू-वराच्छादनकोशकादुद्गतानि-निर्गतानि यानि तानि तथा तैः समृद्धराजकुलसेवितैः असमृद्धराजकुलस्य तु तयोग्यतापि न भवति, कालागुरुः- कृष्णागुरुः प्रवरकुन्द्रुकं- प्रधानचीडा तुरुकं-सिल्हकं एतल्लक्षणो यो धूपस्तद्वशेन यो वासो - वासना तेन विशदः स्पष्ट गन्धो गुणविशेषः उद्भूत उद्भूतोऽभिरामो-रम्यो येषां तानि तथा तैः, 'चिल्लिकाहिंति लीनैः दीप्यमानैर्वा 'उभयोपासंपत्ति उभयोरपि पा र्श्वयोः 'चामराहिँ उक्विप्पमाणाहिं ति प्रकीर्णकैरुत्क्षिप्यमाणैरित्यर्थः, कलिता इति प्रकृतं, तथा सुखशीलवातेन चामराणामेव वीजितानि अङ्गानि येषां ते तथा, अजिता अजितरथा इति प्रतीतं, हलं मुशलं च प्रतीते, कणकाञ्च वाणाः पाणौ हस्ते येषां ते तथा, इदं च बलदेवापेक्षया विशेषणं, शङ्खः पाञ्चजन्याभिधानः चक्रं सुदर्शनं गदा च - कौमोदकी नामा शक्तिश्च त्रिशूलविशेषः नन्दकञ्च-नन्दकाभिधानः खगः एतान् धारयन्ति ये ते तथा, इदं च विशेषणं वासुदेवाश्रयं, प्रवरोज्वलो-वरशुक्लः सुकृतः सुरचितो विमलो-निमेल: कौस्तुभो-वक्षोमणिस्तिरीटं च-मुकुटं धारयन्ति ये ते तथा कुण्डलोद्योतितानना इति व्यक्तं पुण्ड| रीकं-सितपद्मं तद्वनयने येषां ते तथा, एकावली कण्ठे रचिता वक्षसि-हृदये येषां ते तथा, श्रीवत्सः प्रतीतः For Parts On ~156~
SR No.004110
Book TitleAagam 10 PRASHNA VYAKARANAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy