________________
आगम
(१०)
प्रत
गाथा
||3||
दीप
अनुक्रम
[४]
“प्रश्नव्याकरणदशा”
श्रुतस्कन्ध: [१],
मुनि दीपरत्नसागरेण संकलित
प्रश्नव्याक २० श्रीअ
भयदेव० वृत्तिः
॥ ४ ॥
-
· अंगसूत्र -१० (मूलं + वृत्तिः)
---- अध्ययनं [१]
मूलं / गाथा ||३||
आगमसूत्र [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
जारिसओ जनामा जह य कओ जारिसं फलं देति । जेविय करेंति पावा पाणवहं तं निसामेह ॥ ३ ॥
'जारिसो' गाहा, यादृशको - यत्वरूपकः, यानि नामानि यस्येति यन्नामा यदभिधान इत्यर्थः, यथा च कृतो- निर्वर्त्तितः प्राणिभिर्भवतीति यादृशं यत्वरूपं फलं कार्य दुर्गतिगमनादिकं ददाति-करोति, येऽपि च कुर्वन्ति पापा:- पापिष्ठाः प्राणाः प्राणिनस्तेषां वधो विनाशः प्राणवधस्तं, 'तं'ति तत्पदार्थपञ्चकं 'निसामेहति निशमयत शृणुत मम कथयत इति शेषः । तत्र 'तत्वभेदपर्यायैर्व्यारूपे ति न्यायमाश्रित्य याह| शक इत्यनेन प्राणिवधस्य तत्त्वं निश्चेयतया प्रतिज्ञातं यन्नामेत्यनेन तु पर्यायव्याख्यानं, शेषद्वारत्रयेण तु भेदव्याख्या, करणप्रकारभेदेन फलभेदेन च तस्यैव प्राणिवधस्य भिद्यमानत्वात्, अथवा यादृशो यनामा बेत्यनेन स्वरूपतः प्राणिवधश्चिन्तितस्तत्पर्यायाणामपि याथार्थ्यातया तत्खरूपस्यैवाभिधायकत्वात्, यथा च कृतो ये च कुर्वन्तीत्यनेन तु कारणतोऽसौ चिन्तितः, करणप्रकाराणां कर्तृणां च तत्कारणत्वात्, यादृशं फलं ददातीत्यनेन तु कार्यतोऽसौ चिन्तितः एवं च कालत्रयवर्त्तिता तस्य निरूपिता भवतीति, अथवा अनुगमाख्यतृतीयानुयोगद्वारावयवभूतोपोद्घातनिर्युक्त्यनुगमस्य प्रतिद्वाराणां किं कविहमित्यादीनां मध्यात् कानिचिदनया गाधया तानि दर्शितानि, तथाहि पादशक इत्यनेन प्राणिवधस्वरूपोपदर्शकं किमित्येतत् द्वारमुक्तं, यन्नामेत्यनेन तु निरुक्तिद्वारं, एकार्थशब्दविधानरूपत्वात् तस्य, 'सम्मद्दिट्ठी अमोहो' इत्यादिना गाधायुगेन सामायिकनियुक्तावपि सामायिकनिरुक्तिप्रतिपादनात् यथा च कृत इत्यनेन कथमिति द्वारमभिहितं, ये
For Parks Use One
~ 11~
१ आश्रवे यादृशादीनिद्वाराणि
॥ ४ ॥