SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ आगम (१०) “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१], ---- ......................- अध्य यनं [१]----------.........-- मूलं । गाथा ||२|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत गाथा ||२|| SOCCASESSICANAKAR पंचविहो पण्णत्तो जिणेहिँ इह अण्हओ अणादीओ । हिंसामोसमदत्तं अव्वंभपरिग्गह चेव ॥२॥ 'पंचविहीं' गाथा । पञ्चविधः-पञ्चप्रकारः प्रज्ञप्त:-प्ररूपितो जिनैः-रागादिजेतृभिः इह-प्रवचने लोके वा आलव-आश्रवः अनादिकः-प्रवाहापेक्षयाऽऽदिविरहितः उपलक्षणत्वादस्य नानाजीवापेक्षया अपर्यवसित इत्यपि दृश्यं सादित्ये सपर्यवसितत्वे वाऽऽश्रवस्य कर्मबन्धाभावेन सिद्धानामिव सर्वसंसारिणां बन्धाद्यभावप्रसङ्गः, अथवा ऋणं-अधमर्णेन देयं द्रव्यं तदतीतोऽतिदुरन्तत्वेनातिकान्तः ऋणातीतः अणं वा-पापं कर्म आदि:कारणं यस्य स अणादिकः, नहि पापकर्मवियुक्ता आश्रवे प्रवर्तन्ते, सिद्धानामपि तत् प्रवृत्तिप्रसङ्गादिति, तमेव नामत आह-हिंसा-माणवधः 'मोसं'ति मृषावादं अदत्तं-अदत्तद्रव्यग्रहणं अब्रह्म च मैथुनं परिग्रहम-स्वीकारो|| |अब्रह्मपरिग्रह, चकारः समुच्चये, एवशब्दोऽवधारणे, एवं चास्य सम्बन्धः अब्राम परिग्रहमेव चेति, अवधार-|| णार्थश्चैव-हिंसादिभेदत एवं पञ्चविधा, प्रकारान्तरेण तु द्विचत्वारिंशद्विधो, यदाह-"इंदिय ५ कसाय ४] अव्वय ५ किरिया २५ पण चउर पंच पणवीसा । जोगा तिन्नेव भवे बायाला आसवो होइ ॥१॥"त्ति [इन्द्रियाणि कषायाः अव्रतानि क्रियाः पञ्च चत्वारः पञ्च पञ्चविंशतिः। योगात्रय एव भवेयुः द्विचत्वारिंशदाश्रवा भवन्ति ॥१॥] एवं चानया गाथयाऽस्य दशाध्ययनात्मकस्याङ्गस्य पञ्चानामाश्रवाणामभिधायकान्याद्यानि पश्चाध्ययनानि सुचितानि, तत्र प्रथमाध्ययनविनिश्च(या)यप्रथमाश्रववक्तब्यतानुगमाथेमिमां द्वारगाथामाह दीप अनुक्रम anditurary.com पञ्चविध-आश्रवाः ~10~
SR No.004110
Book TitleAagam 10 PRASHNA VYAKARANAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy