________________
आगम
(०५)
प्रत
सूत्रांक
[३८५]
दीप
अनुक्रम [४६५]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
जमाली चरित्रं
मयलाङ्गलप्रतिकृतिधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमङ्गलिका:- चाटुकारिणः 'वज्रमाणा' स्कन्धारोपितपुरुषाः 'प्रसमाणवा' मागधा: 'इजिसिया पिंडिसिया घंटिय'त्ति कचिदृश्यते, तत्र च | इज्यां पूजामिच्छन्त्येषयन्ति वा ये ते इज्येषास्त एव स्वार्थिकेकप्रत्ययविधानाद् इज्यैषिकाः, एवं पिण्डैषिका अपि, नवरं | पिण्डो-भोजनं, घाण्टिकास्तु ये घण्टया चरन्ति तां वा वादयन्तीति, 'ताहिं'ति ताभिर्विवक्षिताभिरित्यर्थः, विवक्षितत्वमेवाह- 'इट्ठाहिं' इष्यन्ते स्मेतीष्टास्ताभिः प्रयोजनवशादिष्टमपि किश्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह'कंताहिं' कमनीयशब्दाभिरित्यर्थः 'पियाहिं' प्रियार्थाभिः 'मणुन्नाहिं' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञा भावतः सुन्दरा इत्यर्थः ताभिः 'मणामाहिं' मनसाऽम्यन्ते - गम्यन्ते पुनः पुनर्वाः सुन्दरत्वातिशयाचा मनोऽमास्ताभिः 'ओरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहिं' कल्याणप्राप्तिसूचिकाभिः 'सिवाहिं' उपद्रवरहिताभिः शब्दार्थदूषणरहिताभिरित्यर्थः 'धन्नाहिं' धनलम्भिकाभिः 'मंगल्लाहिं' मङ्गले-अनर्थप्रतिघाते साध्वीभिः 'सस्सिरीपाहिं' | शोभायुक्ताभिः 'हिययगमणिजाहिं' गम्भीरार्थतः सुबोधाभिरित्यर्थः 'हिययपल्हायणिनाहिं' हृदयगतकोपशोकादिग्रन्थिविलयनकरीभिरित्यर्थः 'मियमहुरगंभीर गाहियाहिं' मिताः- परिमिताक्षरा मधुराः - कोमलशब्दाः गम्भीरा| महाध्वनयो दुरवधार्यमप्यर्थं श्रोतॄन् ग्राहयन्ति यास्ता ग्राहिकास्ततः पदचतुष्टयस्य कर्म्मधारयोऽतस्ताभिः 'मियमहुरगंभीरसस्सिरीयाहिं' ति कचिद् दृश्यते, तत्र च मिताः अक्षरतो मधुराः शब्दतो गम्भीरा- अर्थतो ध्वनितश्च स्वश्रीःआत्मसम्पद् यासां तास्तथा ताभिः 'अहसइयाहिं' अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः, अथवा सइ बहु
Education Internation
For Parts Only
~968~