________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[३८५]
450564
मथितस्य सतो यः फेनपुञ्जस्तस्य च संनिकाशे-सदृशे ये ते तथा, इह चाडो रक्षविशेष इति, 'चामराओं'त्ति यद्यपि । चामरशब्दो नपुंसकलिङ्गो रूढस्तथाऽपीह खीलिङ्गतया निर्दिष्टस्तथैव क्वचिद्रूढत्वादिति ॥ 'मत्तगयमहामुहाकिइसमाणं'ति मत्तगजस्य यन्महामुखं तस्य याऽऽकृतिः-आकारस्तया समानं यत्तत्तथा 'एगाभरणवसणगहियणिज्जोय'त्ति । एक:-एकादश आभरणवसनलक्षणो गृहीतो निर्योगः परिकरो यैस्ते तथा ॥ 'तप्पटमयाए'त्ति तेषां विवक्षितानां मध्ये || प्रथमता तत्प्रथमता तथा 'अट्ठमंगलगत्ति अष्टावष्टाविति चीप्सायां द्विवचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये त्वाहुःअष्टसङ्ख्यानि अष्टमङ्गलकसज्ञानि वस्तूनि 'जाव दप्पणं'ति इह. यावत्करणादिदं दृश्य-नंदियावत्तवद्धमाणगभद्दासणकलसमच्छत्ति तत्र वर्द्धमानक-शरावं (वसंपुट) पुरुषारुढपुरुष इत्यन्ये स्वस्तिकपञ्चकमित्यन्ये प्रासादविशेषमित्यन्ये 'जहा उववाइए'त्ति, अनेन च यदुपात्तं तद्वाचनान्तरे साक्षादेवास्ति, तच्चेदं-'दिवा य छत्तपडागा'दिव्येव दिव्या४|| प्रधाना छत्रसहिता पताका छत्रपताका तथा 'सचामरादरसरइयालोयदरिसणिज्जा पाउडुपविजयवेजयंती य| 8
ऊसिय'त्ति सह चामराभ्यां या सा सचामरा आदर्शो रचितो यस्यां साऽऽदर्शरचिता आलोक-दृष्टिगोचरं यावदृश्यतेऽन्युचत्वेन या साऽऽलोकदर्शनीया, ततः कर्मधारयः, 'सचामरा दंसणरइयआलोयदरिसणिज'त्ति पाठान्तरे तु सचामरेति । भिन्नपदं, तथा दर्शने-जमालेई ष्टिपथे रचिता-विहिता दर्शनरचिता दर्शने वा सति रतिदा-सुखप्रदा दर्शनरतिदा सा चासावालोकदर्शनीया चेति कर्मधारयः, काऽसौ ? इत्याह-वातोद्धृता विजयसूचिका वैजयन्ती-पार्वतो लघुपताकिकाद्वययुक्ता पताकाविशेषा वातोद्भुतविजयवैजयन्ती 'उच्छ्रिता' उच्चा, कथमिव ?-'गगणतलमणुलिहंतीति गगनतलं
दीप अनुक्रम [४६५]
45
*
जमाली-चरित्रं
~962~