________________
आगम
(०५)
"भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३५४]
अन्ये तु ज्ञानक्रियाभ्यामन्योऽन्यनिरपेक्षाभ्यां फलमिच्छन्ति, ज्ञान क्रियाविकलमेवोपसर्जनीभूतक्रिय वा फलद क्रियाऽपि ज्ञानविकला उपसर्जनीभूतज्ञाना वा फलदेति भावः, भणन्ति च-"किश्चिद्वेदमयं पात्रं, किश्चित्पात्रं तपोमयम् । आग| मिष्यति तत्पात्र, यत्पात्रं तारयिष्यति ॥१॥" अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः तथा शीलं श्रेयः ३, द्वयोरपि प्रत्येक * पुरुषस्य पवित्रतानिबन्धनत्वादिति, अन्ये तु व्याचक्षते-शीलं श्रेयस्तावन्मुख्यवृत्त्या तथा श्रुतं श्रेय:-श्रुतमपि श्रेयो | गौणवृत्त्या तदुपकारित्वादित्यर्थः इत्येकीयं मतं, अन्यदीयमतं तु श्रुतं श्रेयस्तावत्तथा शीलमपि श्रेयो गौणवृत्त्या तदुप-1, कारित्वादित्यर्थः, अयं चार्थ इह सूत्रे काकुपाठालभ्यते, एतस्य च प्रथमव्याख्यानेऽन्ययूधिकमतस्य मिथ्यात्वं, पूर्वोक्तपक्ष-| त्रयस्यापि फलसिद्धावनङ्गत्वात् समुदायपक्षस्यैव च फलसिद्धिकरणत्वात् , आह च-"णाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हंपि समाओगे मोक्खो जिणसासणे भणिओ ॥१॥ [ज्ञान प्रकाशकं तपः शोधकं संयमश्च गुप्तिकरः । त्रयाणामपि समायोगे जिनशासने मोक्षो भणितः॥१॥] तपासयमौ च शीलमेव, तथा-"संजोगसिद्धीइ8 फलं वयंति, न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविटा ॥१॥ इति, [फलं संयोगसिद्ध्या वदन्ति एकचक्रेण न रथः प्रयाति । बनेऽन्धः पङ्गश्च समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥१॥] द्वितीयव्याख्यानपक्षेऽपि मिथ्यात्वं, संयोगतः फलसिद्धेटत्वाद्, एकैकस्य प्रधानेतरविवक्षयाऽसङ्गतत्वादिति, अहं पुनर्गौतम | & एवमाख्यामि यावत्प्ररूपयामीत्यत्र श्रुतयुक्तं शीलं श्रेयः इत्येतावान् वाक्यशेषो दृश्यः, अथ कसमादेवं ?, अनोच्यते
'एवं'मित्यादि, एवं वक्ष्यमाणन्यायेन-'पुरिसजाय'त्ति पुरुषप्रकाराः 'सीलवं असुय'ति कोऽर्थः १, 'उधरए अवि-14
दीप अनुक्रम [४३०]
**ॐॐॐॐ
CCCCAXCAKACE
~840~