________________
आगम
(०५)
प्रत
सूत्रांक
[ ३२९
-३३१]
दीप
अनुक्रम
[४०२
-४०४]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः )
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [५] मूलं [ ३२९-३३१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
| हा हतोऽहं येन मना तदाऽसौ न हत इत्येवमनुध्यानात्, तथा 'न' नैव कारयति मनसैव यथा हा न युक्तं कृतं यदसौ परेण न घातित इति चिन्तनात्, तथा 'कुर्वन्तं' विधानमुपलक्षणत्वात् कारयन्तं वा समनुजानन्तं वा परमात्मानं प्राणातिपातं 'नानुजानाति 'नानुमोदयति, मनसैव वधानुस्मरणेन तदनुमोदनात्, एवं न करोति न कारयति कुर्वन्तं नानुजा| नाति वचसा, तथाविधवचनप्रवर्त्तनात्, एवं न करोति न कारयति कुर्वन्तं नानुजानाति कायेन तथाविधाङ्गविकारकरणादिति, न चेह यथासङ्ख्यन्यायो न करोति मनसा न कारयति वचसा नानुजानाति कायेनेत्येवंलक्षणोऽनुसरणीयो, वक्तृविवक्षाधीनत्वात् सर्वन्यायानां वक्ष्यमाणविकल्पायोगाच्चेति, एवं त्रिविधं त्रिविधेनेत्यत्र विकल्पे एक एव विकल्पः तदन्येषु पुनर्द्वितीयतृतीयचतुर्थेषु त्रयः २ पञ्चमषष्ठयोर्नव नव सप्तमे त्रयः अष्टमनवमयोर्नव नवेति, एवं सर्वेऽप्येकोनपञ्चाशत्, एवमियमतीतकालमाश्रित्य कृता करणकारणादियोजना, अथवैवमेषाऽतीतकाले मनःप्रभृतीनां कृतं कारित| मनुज्ञातं वा वधं क्रमेण न करोति न कारयति न चानुजानाति तन्निन्दनेन तदनुमोदननिषेधतस्ततो निवर्त्तत इत्यर्थः, तन्निन्दनस्याभावे हि तदनुमोदनानिवृत्तेः कृतादिरसौ क्रियमाणादिवि स्यादिति वर्त्तमानकालं त्वाश्रित्य सुगमैव, भविष्यत्कालापेक्षया त्वेवमसौ न करोति मनसा तं हनिष्यामीत्यस्य चिन्तनात्, न कारयति मनसैव तमहं घातयिष्या मीत्यस्य चिन्तनात्, नानुजानाति मनसा भाविनं वधमनुश्रुत्य हर्षकरणात् एवं वाचा कायेन च तयोस्तथाविधयोः करणादिति, अथचैवमेव भविष्यत्काले मनःप्रभृतिना करिष्यमाणं कारयिष्यमाणमनुमस्यमानं वा वधं क्रमेण न करोति न कारयति न चानुजानाति ततो निवृत्तिमभ्युपगच्छतीत्यर्थः, सर्वेषां चैषां भीलने सप्तचत्वारिंशदधिकं भङ्गकशतं भवति, दह
Education International
श्रमणोपासकस्य व्रत एवं तस्य भेदा:
For Penal Use On
~746~