________________
आगम
(०५)
प्रत
सूत्रांक
[३२०]
दीप
अनुक्रम [३९३]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [ ३२०] मुनि दीपरत्नसागरेण संकलित
Internationa
ज्ञानादि अधिकार:
आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
नानि भजनयैव, दानस्याब्धिकास्तु सिद्धास्ते च दानान्तरायक्षयेऽपि दातव्याभावात् सम्प्रदानासत्त्वादानप्रयोजनाभावाच्च दानालब्धय उक्तास्ते च नियमात्केवलज्ञानिन इति ॥ लाभभोगोपभोगवीर्यलब्धीः सेतरा अतिदिशन्नाह - 'एव'मित्यादि, इह चालब्धयः सिद्धानामेवोक्तन्यायादवसेयाः, ननु दानाद्यन्तरायक्षयात्केवलिनां दानादयः सर्वप्रकारेण | कस्मान्न भवन्ति ? इति उच्यते, प्रयोजनाभावात्, कृतकृत्या हि ते भगवन्त इति । 'बालबीरियलदियाण' मित्यादि, बालवीर्यलब्धयः-असंयताः तेषां च ज्ञानिनां त्रीणि ज्ञानानि अज्ञानिनां च त्रीण्यज्ञानानि भजनया भवन्ति, तदलब्धिकास्तु संयताः संयतासंयताश्च ते च ज्ञानिन एव एतेषां च पञ्च ज्ञानानि भजनया । 'पंडियबीरिये' त्यादौ, 'तस्स अलद्धियाणं ति असंयतानां संयतासंयतानां सिद्धानां चेत्यर्थः, तत्रासंयतानामाद्यं ज्ञानत्रयमज्ञानत्रयं च भजनया, संयतासंयतानां तु ज्ञानत्रयं भजनयैव भवति, सिद्धानां तु केवलज्ञानमेव, मनःपर्यायज्ञानं तु पण्डितवीर्यलब्धिमतामेव भवति नान्येषामत उक्तं 'मणपज्जवे'त्यादि, सिद्धानां च पण्डितवीर्यालब्धिकत्वं पण्डितवीर्यवाच्ये प्रत्युपेक्षणाद्यनुष्ठाने। प्रवृत्त्यभावात्, 'बालपंडिए' इत्यादौ, तस्स अलद्वियाणं'ति अश्रावकाणामित्यर्थः ॥ 'इंदियलद्धियाण' मित्यादि, इन्द्रि यलब्धिका ये ज्ञानिनस्तेषां चत्वारि ज्ञानानि भजनया, केवलं तु नास्ति तेषां केवलिनामिन्द्रियोपयोगाभावात्, ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैवेति, इन्द्रियालब्धिकाः पुनः केवलिन एवेत्येकमेव तेषां ज्ञानमिति । 'सोइंदिय' इत्यादि, श्रोत्रेन्द्रियलब्धय इन्द्रियलब्धिका इव वाच्याः, ते च ये ज्ञानिनस्तेऽकेवलित्यादाद्यज्ञानचतुष्टयवन्तो भजनया भवन्ति, अज्ञानिनस्तु भजनया व्यज्ञानाः, श्रोत्रेन्द्रियालब्धिकास्तु ये ज्ञानिनस्ते आद्य द्विज्ञानिनः, तेऽपर्याप्तकाः सासा
For Parts Only
~712~
waryra