________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१६], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
+
4
प्रत
सूत्रांक
[१६]
अस्तिशब्दस्याव्ययत्वेन बहुत्वार्थत्वाद् 'अस्ति' विद्यन्ते सन्तीत्यर्थः, अथवाऽस्ति अयं पक्षो यदुत 'एगइय'ति । एकका एके केचनेत्यर्थः जीवाः, आत्मारम्भा अपीत्यादावपिशब्द उत्तरपदापेक्षया समुच्चये, स चात्मारम्भत्वादिधर्मा-1 णामेकाश्रयताप्रतिपादनार्थः भिन्नाश्रयताप्रतिपादनाथों वा, एकाश्रयत्वं च कालभेदेनावगन्तव्यं, तथाहि-कदाचिदात्मारम्भाः कदाचित्परारम्भाः कदाचित्तदुभयारम्भाः, अत एव नो अनारम्भाः, भिन्नाश्रयत्वं त्वेवम्-एके जीवा
असंयता इत्यर्थः आत्मारम्भा वा परारम्भा वेत्यादि । अथैकस्वभावत्वाज्जीवानां भेदमसंभावयन्नाह-'सेकेणढणं'ति || all अथ केन कारणेनेत्यर्थः, 'दुविहा पन्नत्त'त्ति मयाऽन्यैश्च केवलिभिः, अनेन समस्तसर्वविदा मताभेदमाह, मतभेदे तु लाविरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपाभिधायकविरुद्धवचनपुरुषकदम्बकवदिति, प्रमत्तसंवतस्य माहि शुभोऽशुभश्च योगः स्यात् संयत्तत्वात्प्रमादपरत्वाच्च इत्यत आह-'सुभं जोगं पडुच'त्ति शुभयोग:-उपयुक्ततया का प्रत्युपेक्षणादिकरणम् , अशुभयोगस्तु तदेवानुपयुक्ततया, आह च-"पुढवी आउक्काए तेजवाजवणस्सइतसाणं । पडि &ालेहणापमत्तो छण्हपि विराहओ होइ ॥१॥" तथा "सेबो पमत्तजोगो समणस्स उ होइ आरंभो" त्ति अतः शुभा-|
शुभौ योगावात्मा (ना) रम्भादिकारणमिति । 'अविरई पट्टच'त्ति, इहार्य भावः-यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरति
१ प्रतिलेखनाप्रमत्तः (कुम्मकारशालादिस्थितः) पृथिव्यतेजोवायुवनस्पतित्रसानां षण्णामपि विराधको भवति ॥१॥ २ श्रमणस्य तु ★ सर्वः प्रमत्तयोग आरम्भो भवति ।।
दीप अनुक्रम [२२]
~69~