________________
आगम
(०५)
प्रत
सूत्रांक
[३१८]
दीप
अनुक्रम [३९१]
व्याख्या
प्रज्ञधिः अभयदेवी
या वृत्तिः १
॥ ३४४॥
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [८], वर्ग [-], अंतर- शतक [-] उद्देशक [२], मूलं [ ३१८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
अभावा जाव अनंता भवसिद्धिया अनंता अभवसिद्धिया अनंता सिद्धा अनंता असिद्धा पन्नत्ते'ति, अस्य च सूत्रस्य या सङ्ग्रहगाथा - "भावमभावा हेकमहेड कारणम कारणा जीवा । अज्जीव भवियाऽभविया तत्तो सिद्धा असिद्धा य ॥ १ ॥" ४ इत्येवंरूपा तस्याः खण्डमिदमेतदन्तं श्रुतज्ञानसूत्रमिहाध्येयमिति ॥ ज्ञानविपर्ययस्त्वज्ञानमिति तत्सूत्रम् ---तत्र च 'अन्नाणे' ति नञः कुत्सार्थत्वात् कुत्सितं ज्ञानमज्ञानं, कुत्सितत्वं च मिथ्यात्व संचलितत्वात् उक्तञ्च - "अवि सेसिया मइश्चिय सम्मद्दिट्ठिस्स | सा मइन्नाणं । मइअन्नाणं मिच्छद्दिट्टिस्स सुर्यपि एमेव ॥ १ ॥” “विभंगणाणे'त्ति विरुद्धा भङ्गा - वस्तुविकल्पा यस्मिंस्तद्विभङ्गं तच तज्ज्ञानं च अथवा विरूपो भङ्गः-अवधिभेदो विभङ्गः स चासौ ज्ञानं चेति विभङ्गज्ञानम्, इह च कुत्सा विभङ्गशब्देनैव गमितेति न ज्ञानशब्दो नत्रा विशेषितः, 'अत्थोग्गहे य'त्ति अर्थ्यत इत्यर्थस्तस्यावग्रहः अर्थावग्रहःसकलविशेषनिरपेक्षानिर्देश्यार्थग्रहण मेकसामयिकमिति भावार्थ:, 'वंजणोग्गहे यत्ति व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तत्रोपकरणेन्द्रियं शब्दादिपरिणत द्रव्यसङ्घातो वा ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण व्यञ्जनानांवा-शब्दादिपरिणतद्रव्याणामवग्रहो व्यञ्जनावग्रहः, अत्रार्थावग्रहस्य सुलक्ष्यत्वात् सकलेन्द्रियार्थध्यापकत्वाश्च प्रथममुपन्यासः, 'एवं जहेवेत्यादि, यथैवाभिनिबोधिकज्ञानमधीतं तथैव मत्यज्ञानमप्यध्येयं तचैवम्— 'से किं तं बंजणोग्गहे १, २ चडबिहे पनन्ते, तंजहा- सोइंदियवंजणोग्गहे घाणिंदिद्यवंजणोग्गहे जिम्भिदियवंजणोग्गहे फासिंदियवंजणोग्गहे' १- भावा अभावा तवोऽहेतवः कारणान्यकारणानि जीवा अजीवा भव्या अभव्यास्ततः सिद्धा असिद्धाः ॥ ( द्वादशाङ्गीरूपमणिपिटके) । २- अविशेषिता मतिरेव सा सम्यम्टष्टेर्मतिज्ञानं मिथ्यादृष्टेर्मत्यज्ञानं श्रुतमप्येवमेव ॥ १ ॥
Education International
ज्ञानस्य भेद-प्रभेदाः
For Pernal Use On
~693~
८ शतके
उद्देशः २ ज्ञानाज्ञानाधिकारः सू ३१८
॥३४४॥