________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३१८]
आभिनियोधिकज्ञानम्-इन्द्रियानिन्द्रियनिमित्तो वोध इति । 'सुयनाणे'त्ति श्रूयते तदिति श्रुतं-शब्दः स एव ज्ञान है। |भावश्रुतकारणत्वात् कारणे कार्योपचारात् श्रुतज्ञानं, श्रुताद्वा-शब्दात् ज्ञानं श्रुतज्ञानम्-इन्द्रियमनोनिमित्तः श्रुतग्रन्थानुसारी बोध इति । 'ओहिणाणे'त्ति अवधीयते-अधोऽधो विस्तृतं वस्तु परिच्छिद्यतेऽनेनेत्यवधिः स एव ज्ञानम् अवधिना वा-मर्यादया मूर्तद्रव्याण्येव जानाति नेतराणीति व्यवस्थया ज्ञानमवधिज्ञानं 'मणपजवणाणे'त्ति मनसोमन्यमानमनोद्रव्याणां पर्यवः-परिच्छेदो मनापर्ययः स एव ज्ञानं मनःपर्यवज्ञानं मनःपर्यायाणां वा-तदवस्थाविशेषाणां ज्ञानं मनःपर्यायज्ञानम् । 'केवलणाणे'त्ति केवलमेकं मत्यादिज्ञाननिरपेक्षत्वात् शुद्ध वा आवरणमलकलङ्करहितत्वात् सकलं वा-तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वाऽनन्यसहशत्वात् अनन्तं वा ज्ञेयानन्तत्वात यथाऽवस्थिताशेषभूतभवद्राविभावस्वभावावभासीति भावना तच तत् ज्ञानं चेति केवलज्ञानम् । 'उग्गहो'त्ति सामान्यायस्य-अशेषविशेषनिरपेक्षस्थानिर्देश्यस्य रूपादेः अव इति-प्रथमतो ग्रहण-परिच्छेदनमवग्रहः 'ईहत्ति सदर्थविशेषा-1 | लोचनमीहा 'अवाओ'त्ति प्रक्रान्तार्थविनिश्चयोऽवायः 'धारणेति अवगतार्थविशेषधरणं धारणा एवं जहे'त्यादि, एवम्' उक्तक्रमेण यथा राजप्रश्नकृते द्वितीयोपाने ज्ञानानां भेदो भणितस्तथैवेहापि भणितव्यः, स चैवम्-'से किंतं उम्गहे , जग्गहे दुविहे पन्नत्ते, तंजहा-अत्थोग्गहे य वंजगोग्गहे य'इत्यादिरिति, यच्च वाचनान्तरे श्रुतज्ञानाधिकारे यथा नन्यामङ्गप्ररूपणेत्यभिधाय 'जाव भवियअभविया तत्तो सिद्धा असिद्धा येत्युक्तं तस्यायमर्थ:-श्रुतज्ञानसूत्रावसाने किल नन्द्यां श्रुतविषयं दर्शयतेदमभिहितम्-'इचेयंमि दुवालसंगे गणिपिडए अर्णता भावा अणंता
4560
दीप अनुक्रम [३९१]
M
astaram.org
ज्ञानस्य भेद-प्रभेदा:
~692~