________________
आगम
(०५)
प्रत
सूत्रांक
[ ३०१
-३०४]
दीप
अनुक्रम
[३७३-३७६]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [७], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [३०१-३०४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः 'ठाणं'ति पादन्यास विशेषलक्षणं 'ठाति'त्ति करोति 'आययकण्णायय'ति आयतः- आकृष्टः सामान्येन स एव कर्णायतः- आकर्णमाकृष्ट आयतकर्णायतस्तम्, 'एगाहचं' ति एका हत्या- हननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं तद्यथा भवति, 'कूडाहति कूदे इव तथाविधपापाणसंपुटादौ कालविलम्बाभावसाधर्म्यादाहत्या - आहननं यत्र तत् कुटाहत्यम् 'अत्थामे 'ति' अस्थामा' सामान्यतः शक्तिविकलः 'अबले' त्ति शरीरशक्तिवर्जितः 'अवीरिए'ति मानसशक्तिवर्जितः 'अपुरिसक्कारपरक्कमेति व्यक्त नवरं पुरुषक्रिया पुरुषकार:- पुरुषाभिमानः | स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारणिज्जं 'ति आत्मनो धरणं कर्त्तुमशक्यम् 'इतिक'त्ति इतिकृत्वा इतिहेतोरित्यर्थः 'तुरए गिगिन्हइति अश्वान् गच्छतो निरुणद्धीत्यर्थः 'एगंतमंत' ति 'एकान्तं' विजनम् 'अन्त' भूमिभागं 'सीलाई 'ति फलानपेक्षा: प्रवृत्तयः ताश्च प्रक्रमाच्छुभाः 'वयाई 'ति अहिंसादीनि 'गुणाई'ति गुणव्रतानि 'वेरमणाई' ति सामान्येन रागादिविरतयः 'पञ्चकखाणपोसहोववासाई'ति प्रत्याख्यानं - पौरुष्यादिविषयं पौषधोपवासः - पर्वदिनोपवासः 'गीयगंधवनिनाए 'ति गीतं गानमात्रं गन्धर्व - तदेव मुरजादिध्वनिसनार्थं तलक्षणो निनादः - शब्दो गीतगन्धर्वनिनादः ॥ 'कालमासे 'ति मरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं 'कहिं गए कहिं उवचने ति प्रश्नद्वये 'सोहम्मे 'त्याद्येकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति । 'आउकखणं आयुः कर्मदलिक निर्जरणेन भवक्खणं ति देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन 'ठिइक्खपूर्ण'ति आयुष्कादिकर्म्मणां स्थितिनिर्जरणेनेति ॥ सप्तमशते नवमोद्देशकः सम्पूर्णः ॥ ७-९ ॥
01010
Education Internation
अत्र सप्तम शतके नवम उद्देशकः समाप्तः
For Penal Use Only
~ 650~
junrary org