________________
आगम
(०५)
प्रत
सूत्रांक
[२९२]
दीप
अनुक्रम [३६४]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [७], वर्ग [-] अंतर् शतक [-] उद्देशक [७] मूलं [ २९२] मुनि दीपरत्नसागरेण संकलित
व्याख्याप्रज्ञप्तिः अभयदेवी
यावृत्तिः १
॥३१२॥
Jan Eucatur
आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
भवन्तीति ॥ अथासम्क्षिविपक्षमाश्रित्याह- 'अत्थी' त्यादि, अस्त्ययं पक्षो यदुत 'पभूवि'त्ति प्रभुरपि सञ्ज्ञित्वेन यथावद्रूपादिज्ञाने समर्थोऽप्यास्तामसतित्वेनाप्रभुरित्यपिशब्दार्थः 'अकामनिकरणम्' अनिच्छाप्रत्ययमनाभोगात्, अन्येत्याहु:अकामेन अनिच्छया 'निकरणं' क्रियाया इष्टार्थप्राप्तिलक्षणाया अभावो यत्र वेदने तत्तथा तद्यथा भवतीत्येवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु 'जे णं'ति यः प्राणी सज्ञित्वेनोपायसद्भावेन च हेयादीनां हानादौ समर्थोऽपि 'नो पहु'ति न समर्थी विना प्रदीपेनान्धकारे रूपाणि 'पासितए 'त्ति द्रष्टुम् एषोऽकामप्रत्ययं वेदनां वेदयतीति सम्बन्धः, 'पुरओ'ति अग्रतः 'अणिज्झाएता नं'ति 'अनिर्व्याय' चक्षुरव्यापार्य 'मग्गओ'त्ति पृष्ठतः 'अणवपक्खित्ताणं'ति 'अनवेक्ष्य' पश्चाद्भागमनवलोक्येति ॥ अकामनिकरणं वेदनां वेदयतीत्युक्तम्, अथ तद्विपर्ययमाह - 'अस्थि ण'मित्यादि, 'प्रभुरपि' सज्ञित्वेन रूपदर्शनसमर्थोऽपि 'पकामनिकरणंति प्रकामः - ईप्सितार्थाप्राप्तिः प्रवर्द्धमानतया प्रकृष्टोऽभि लाषः स एव निकरणं कारणं यत्र वेदने तत्तथा, अन्ये त्याहुः प्रकामे - तीत्राभिलावे सति प्रकामं वा अत्यर्थ निकरणम्इष्टार्थसाधक क्रियाणामभावो यत्र तत् प्रकामनिकरणं तद्यथा भवतीत्येवं वेदनां वेदयतीति प्रश्नः, उत्तरं तु 'जे ण'मित्यादि, यो न प्रभुः समुद्रस्य पारं गन्तुं तद्गतद्रव्यप्रात्यर्थे सत्यपि तथाविधशक्तिवैकल्यात्, अत एव च यो न प्रभुः समुद्रस्य पारगतानि रूपाणि द्रष्टुं स तद्गताभिलाषातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति ॥ सप्तमशते सप्तमः ॥७-७॥
सप्तमोदेशकस्यान्ते छद्मस्थिकं वेदनमुक्तमष्टमे त्वादावेव छद्मस्थ वक्तयतोच्यते, तत्र चेदं सूत्रम्-
अत्र सप्तम शतके सप्तम उद्देशकः समाप्तः
अथ सप्तम शतके अष्टम उद्देशक: आरम्भः
For Parts Only
~629~
७ शतके
उद्देशः ७
॥३१२ ॥