________________
आगम
(०५)
प्रत
सूत्रांक
[२७२]
गाथा
दीप
अनुक्रम
[ ३४०
-३४२]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [७], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [ २७२] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
'कतिविहे ण'मित्यादि, मूलगुणपञ्चक्खाणे य'त्ति चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः - प्राणातिपातविरमणादयो मूलगुणास्तद्रूपं प्रत्याख्यानं निवृत्तिर्मूलगुणविषयं वा प्रत्याख्यानं - अभ्युपगमो मूलगुणप्रत्याख्यानम् 'उत्तरगुणपञ्चक्खाणे | यति मूलगुणापेक्षयोत्तरभूता गुणा वृक्षस्य शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानं, 'सङ्घमूलगुणेत्यादि, | सर्वथा मूलगुणप्रत्याख्यानं सर्वमूलगुणप्रत्याख्यानं देशतो मूलगुणप्रत्याख्यानं देश मूलगुणप्रत्याख्यानं, तत्र सर्वमूलगुणप्रत्याख्यानं सर्वविरतानां देश मूलगुणप्रत्याख्यानं तु देशविरतानाम् || 'अणागय' गाहा, अनागतकरणादनागतं पर्युपणादावाचार्यादिवैयावृत्यकरणेनान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, आह च "हो' ही पज्जोसवणा मम य तथा अंतराश्यं होज्जा । गुरुवेयावचेणं १ तवस्ति २ गेलण्णयाए वा ३ ||१|| सो दाइ तवोकम्मं पडिवज्जइ तं अणागए काले । | एयं पञ्चक्खाणं अणागयं होइ नायबं ॥ २ ॥ इति, एवमतिक्रान्तकरणादतिक्रान्तं, भावना तु प्राग्वत्, उक्तं च--"पेजो सवणाइ तवं जो खलु न करेइ कारणजाए। गुरुवेयावच्चेणं १ तवस्ति २ गेलण्णयाए वा ३ ॥ १ ॥ सो दाइ तवोकम्मं पडिवाइ तं अइच्छिए काले। एयं पञ्चक्खाणं अतिकंत होइ नाय ॥२॥”ति, कोटी सहितमिति-मीलितप्रत्याख्यानद्वय कोटि
१ भविष्यति पर्युषणा मम च तदाऽन्तरायो भविष्यति । गुरुवैयावृत्येन तपखियै ग्लानतया वा ॥ १ ॥ तदिदानीं तपःकर्म प्रतिपद्ये तदनागते काले । एतत् मत्याख्यानं अनागतं भवति ज्ञातव्यं ॥ २ ॥ २ पर्युषणायां तपो य एव न अकार्ष कारणजाते । गुरुवैयावृत्येन तपस्विवै ग्लानतया वा ॥ १॥ तदिदानीं तपःकर्म प्रतिषये तदतिक्रान्ते काले। एतत् प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यं ॥ २ ॥
प्रत्याखानस्य मूल- उत्तरगुणरूप भेदाः
For Parts Only
~ 596~