________________
आगम
(०५)
ཡྻོཝཱ སྦྲ + ཀྑལླཱཡྻ
[१६-१७]
““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [१२], + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्या० ५
कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति न द्रव्यान्तराणामितिकृत्वा कर्म्मद्रव्यवर्गणामधिकृत्येत्युक्तम्, 'अणूं चैव वायरा चैवति चेवशब्दः समुच्चयार्थः, ततश्चाणवश्च वादराश्व, सूक्ष्माश्च स्थूलाश्वेत्यर्थः सूक्ष्मत्वं स्थूलत्वं चैषां कर्म्मद्रव्यापेक्षयैवागतन्तव्यं नान्यापेक्षया, यत औदारिकादिद्रव्याणां मध्ये कर्म्मद्रव्याण्येव सूक्ष्माणीति । एवं चयोपच| योदीरणवेदननिर्जराः शब्दार्थभेदेन वाच्याः, किन्तु चयसूत्रे उपचयसूत्रे च 'आहारदव्ववग्गणमहिकिच्चे 'ति यदुक्तं | तत्रायमभिप्रायः- शरीरमाश्रित्य चयोपचयौ प्राग् व्याख्याती तौ चाहारद्रव्येभ्य एव भगवतो नान्यतः, अत आहारद्रव्यवर्गणामधिकृत्येत्युक्तमिति, उदीरणादयस्तु कर्म्मद्रव्याणामेव भवन्त्यतस्तत्सूत्रेषुक्तं कर्म्मद्रव्यवर्गणामधिकृत्येति । 'उयहिंस' ति अपवर्त्तितवन्तः, इहापवर्त्तनं कर्म्मणां स्थित्यादेरध्यवसाय विशेषेण हीनताकरणम्, अपवर्त्तनस्य चोपलक्षणत्वादुद्वर्त्तनमपीह दृश्यं तच्च स्थित्यादेर्वृद्धिकरणस्वरूपं, 'संकासु' त्ति संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं, तथा वाह--"मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्रकृतीः । नन्वात्माऽमूर्त्तत्वादध्यवसायप्रयोगेण ॥ १ ॥" अपरस्त्वाह- "मोनूण आउयं खलु दंसणमोहं चरितमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भणिओ ॥ १ ॥ एतदेव निदर्श्यते यथा कस्यचित्सद्वेद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा | जाता येन तदेव सद्वेद्यमसद्वेद्यतया संक्रामतीति, एवमन्यत्रापि योग्यमिति । 'निवत्तेसु'त्ति निघत्तान् कृतवन्तः, इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निघत्तमुच्यते, उद्वर्त्तनापवर्त्तनव्यतिरिक्तकरणा१ आयुर्दर्शनमोहं चारित्रमोदं च मुक्त्वा । शेषाणां प्रकृतीनामुत्तर विधितंक्रमो भणितः ॥ १ ॥
For Parts Only
~ 55~