________________
आगम (०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२३९]]
गाथा
दाभवति तस्य करणस्य निष्पत्तिराहारपर्याप्तिः, करणं शक्तिरिति पर्यायौ, तथा शरीरपर्याप्तिीम येन करणेनौदारिकवैक्रि
याहारकाणां शरीराणां योग्यानि द्रव्याणि गृहीत्वौदारिकादिभावेन परिणमयति तस्य करणस्य निर्वृत्तिः शरीरपर्याप्तिरिति, तथा येन करणेनैकादीनामिन्द्रियाणां प्रायोग्याणि द्रव्याणि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं समर्थों भवति तस्य
करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनानप्राणप्रायोग्याणि द्रव्याण्यवलम्ब्यावलम्च्यानप्राणतया निःस्रष्टुं & समर्थों भवति तस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिरिति, तथा येन करणेन सत्यादिभाषाप्रायोग्याणि द्रव्याण्यवलम्ब्या
वलम्ब्य चतुर्विधया भाषया परिणमय्य भाषानिसर्जनसमर्थों भवति तस्य करणस्य निष्पत्तिर्भाषापर्याप्तिः, तथा येन कररणेन चतुर्विधमनोयोग्यानि द्रव्याणि गृहीत्वा मननसमर्थों भवति तस्य करणस्य निष्पत्तिर्मनःपर्याप्तिरिति । 'आहार
पजत्तीए'इत्यादि, इह जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गकोऽनवरतं विग्रहगतिमतामाहापर्याप्तिमतां बहूनां लाभात् , शेषेषु च षडू भङ्गाः पूर्वोक्ता एवाहारपर्याप्तिमतामल्पत्वात्, 'सरीरअपज्जत्तीए'इत्यादि, इह जीवेष्वेकेन्द्रियेषु चैक एव भङ्गोऽन्यत्र तु त्रयं, शरीराद्यपर्याप्तकानां कालतः सप्रदेशानां सदैव लाभात् अप्रदेशानां च कदाचिदेकादीनां च लाभात्, नारकदेवमनुष्येषु च पडेवेति, 'भासे'त्यादि, भाषामनःपर्याप्याऽपर्याप्तकास्ते येषां
जातितो भाषामनोयोग्यत्वे सति तदसिद्धिः, ते च पञ्चेन्द्रिया एव, यदि पुनर्भाषामनसोऽभावमात्रेण तदपर्याप्तका अभ: ४ विध्यंस्तदैकेन्द्रिया अपि तेऽभविष्यस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात्, उच्यते च-'जीवाइओ तियभंगोंत्ति, तत्र
जीवेषु पञ्चेन्द्रियतिर्यक्षु च बहूनां तदपर्याप्ति प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भङ्गत्रयं, 'नेर
दीप अनुक्रम [२८६-२८७]]
~ 536~