________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२२६-२२७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२२६-२२७]
दीप अनुक्रम [२६७-२७०]
45555
प्रदर्शितम् । तथा 'परिबुडेत्ति अलोकेन परिवृतः 'हेट्ठा विच्छिन्नेत्ति सप्तरज्जुषिस्तृतत्वात् 'मज्ो संखिसे'त्ति एक-15
रजुविस्तारत्वात् 'उपि विसाले'त्ति ब्रह्मलोकदेशस्य पञ्चरजुविस्तारत्वात्, एतदेवोपमानतः प्राह-'अहे पलिपंकसं-16 |ठिए'त्ति उपरिसङ्कीर्णत्वाधोविस्तृतत्वाभ्यां 'मझे घरवहरविग्गहिए'त्ति वरवज्रवद्विग्रहः-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्चेकप्रत्ययः, उप्पि उद्धमुइंगागारसंठिए'त्ति ऊो न तु तिरश्चीनो यो मृदङ्गस्तस्याकारेण संस्थितो यः स तथा, मलकसंपुटाकार इत्यर्थः, 'अणंता जीवघण'त्ति 'अनन्ताः' परिमाणतः सूक्ष्मादिसाधारणशरीराणां विवक्षि| तत्वात् , सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामपर्यवसानत्वात्, जीवाश्च ते घनाश्चानन्तपर्यायसमूहरूपत्वादसमेसायप्रदेशपिण्डरूपत्वाच जीवधनाः, किमित्याह-'उप्पज्जितेति उत्पद्योत्पद्य 'चिलीयन्ते' विनश्यन्ति, तथा 'परीत्ता' प्रत्ये-15
कशरीरा अनपेक्षितातीतानागतसन्तानतया वा सङ्क्षिप्ता, जीवघना इत्यादि तथैव, अनेन च प्रश्ने यदुक्कम् 'अणंता राई|दिया इत्यादि तस्योत्तरं सूचितं, यतोऽनन्तपरीत्तजीवसम्बन्धात्कालविशेषा अप्यनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो वि|रोधः परिहतो भवतीति । अथ लोकमेव स्वरूपत आह-'से (नूर्ण) भूए'त्ति यत्र जीवघना उत्पद्य २ विलीयन्ते स लोको| भूता-सद्भूतो भवनधर्मयोगात्, स चानुत्पत्तिकोऽपि स्याद् यथा नयमतेनाकाशमत आह-उत्पन्नः, एवंविधश्चानश्वरोऽपि | स्याद् यथा विवक्षितघटाभाव इत्यत आह-विगतः, स चानन्ययोऽपि किल भवतीत्यत आह-परिणत:-पर्यायान्तराणि आपन्नो न तु निरन्वयनाशेन नष्टः। अथ कथमयमेवंविधो निश्चीयते ? इत्याह-अजीवहिं ति 'अजीवैः' पुद्गलादिभिः सत्तां विश्वनिरुत्पद्यमानैर्विगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः 'लोक्यते' निश्चीयते 'प्रलोक्यते' प्रकर्षण निश्चीयते, भूतादि
~502~