SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२२०] दीप अनुक्रम [२६१] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [७] मूलं [ २२०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | अहेडं न जाणइ ज्ञाब अहेउ छमत्थमरणं मरइ ॥ पंच अहेऊ पण्णत्ता, तंजहा - अहेउणा न जाणइ जाव | अहेउणा छउमत्थमरणं मरइ । सेवं भंते २ त्ति (सूत्रं २२० ) || पश्चमशते सप्तमोदेशकः ॥ ६-७ ॥ 'पंच हेड' इत्यादि, इह हेतुषु वर्त्तमानः पुरुषो हेतुरेव तदुपयोगानन्यत्वात् पञ्चविधत्वं चास्य क्रियाभेदादित्यत आह'हेडं जाणइति 'हेतुं' साध्याविनाभूतं साध्यनिश्चयार्थ 'जानाति' विशेषतः सम्यगवगच्छति सम्यग्दृष्टित्वात्, अयं | पश्ञ्चविधोऽपि सम्यग्दृष्टिर्मन्तव्यो मिथ्यादृष्टेः सूत्रद्वयात्परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति सामान्यत एवावबोधादिति द्वितीयः, एवं 'युध्यते' सम्यक् श्रद्धत्त इति बोधेः सम्यकश्रद्धानपर्यायत्वादिति तृतीयः, तथा हेतुम् 'अभिसमागच्छति' साध्यसिद्धी व्यापारणतः सम्यक् प्राप्नोतीति चतुर्थः, तथा 'हेडं छउमत्थे'त्यादि हेतु:--अध्यवसानादि| मरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः छद्मस्थमरणं, न केवलिमरणं, तस्याहेतुकत्वात् नाप्यज्ञानमरण| मेतस्य सम्यग्ज्ञानित्वात् अज्ञानमरणस्य च वक्ष्यमाणत्वात् म्रियते-करोतीति पञ्चमः ॥ प्रकारान्तरेण हेतूनेवाह- 'पंचे'त्यादि, 'हेतुना' अनुमानोत्थापकेन जानाति - अनुमेयं सम्यगवगच्छति सम्यग्दृष्टित्वादेकः, एवं पश्यतीति द्वितीयः, एवं 'बुध्यते' श्रद्धत्त इति तृतीयः एवम् 'अभिसमागच्छति' प्राप्नोतीति चतुर्थः, तथाऽकेवलित्वात् 'हेतुना' अध्यवसानादिना छद्मस्थमरणं म्रियते इति पञ्चमः ॥ अथ मिथ्यादृष्टिमाश्रित्य हेतूनाह-- 'पंचे 'त्यादि, पञ्च क्रियाभेदात् हेतवो हेतुव्यवहारित्वात्, तत्र 'हेतु' लिङ्गं न जानाति, नञः कुत्सार्थत्वादसम्यगवैति मिथ्यादृष्टित्वात् १, एवं न पश्यति २, एवं न बुध्यते ३, एवं नाभिसमागच्छति ४, तथा 'हेतुम्' अध्यवसानादिहेतुयुक्तमज्ञानमरणं 'म्रियते' करोति मिथ्यादृष्टि For Parts Only ~ 482~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy