________________
आगम
(०५)
प्रत
सूत्रांक
[२०४]
दीप
अनुक्रम [२४४]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [६] मूलं [ २०४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः १
॥२२६॥
ग्राह्या, यतः किल जिनागमाभिसंस्कृतमतयो मुनयः प्रथमवयसं भोगिनं कञ्चन मृतं दृष्ट्वा वक्तारो भवन्ति नूनमनेन | भवान्तरे किञ्चिदशुभं प्राणिघातादि वा सेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यप्यल्पायुः संवृत्त इति, अन्ये स्वाहु:यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिनाऽऽघाकर्मादिकरणेन च | प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अथ नैवं निर्विशेपणत्वात्सूत्रस्य, अल्पायुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद् अतः कथमभिधीयते | सविशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कता इति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेविशेषणमवश्यं वाच्यं यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्कता वक्ष्यति, न हि सामान्यतौ कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा 'समणोवासयस्स णं भंते । तहारूवं समणं वा माहणं वा अफासुरणं २ | असणं ४ पडिला भेमाणस्स किं कज्जइ ?, गोयमा ! बहुतरिया निज्जरा कज्जइ अप्पतरे से पावे कम्मे कज्जइति वक्ष्यमाणवचनादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य धुलकभवग्रहण| निमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात् नन्वेवं धर्मार्थ प्राणातिपातमृषावादामासुकदानं च कर्त्तव्यमापनमिति, अत्रोच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः १ यतो यतिधर्माशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण १- श्रमणोपासकेन मदन्त । तथारूपं श्रमणं वा प्राकेनानेपणीयेनाशनादिना प्रतिलाभयित्वा किं क्रियते !, गौतम ! बहुतरा निर्जरा कियते अल्पतरं च पापं कर्म तेन क्रियते ॥
For Pal Use Only
५ शतके
उद्देशः ६ अल्पदीर्घशुभायूंषि सू २०३
~ 457~
॥२२६॥
***एते पृष्ठे सूत्र-क्रमांके एक मुद्रण-दोष: दृश्यते (सू.२०३) --- ( यहाँ इस पृष्ठ की बायीं तरफ सू.२०३ लिखा है, वहां सू.२०४ होना चाहिए ) | अल्प- दीर्घ-शुभ आयुः