________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः )
शतक [१], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [७-R], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
७ि)
मान ! 'भा दीप्ती' इति वचनात्, भ्राजमान ! वा-दीप्यमान ! 'भ्राज दीप्ती' इति वचनात् । अयं च आदित आरभ्य &भंतेत्ति पर्यन्तो अन्धो भगवता सुधर्मस्वामिना पश्चमाङ्गस्य प्रथमशतस्य प्रथमोद्देशकस्य सम्बन्धार्थमभिहितः। अथानेन
सम्बन्धेनायातस्य पञ्चमाङ्गप्रथमशतप्रथमोद्देशकस्वेदमादिसूत्रम्-'चलमाणे चलिए' इत्यादि, अथ केनाभिप्रायेण भगवता सुधर्मस्वामिना पञ्चमाङ्गस्य प्रथमशतप्रथमोद्देश कस्यार्थानुकथनं कुर्वतैवमर्थवाचकं सूत्रमुपन्यस्त नान्यानीति?, अनोच्यते, इह चतुर्यु पुरुषार्थेषु मोक्षाख्यः पुरुषार्थो मुख्यः, सर्वातिशायित्वात् , तस्य च मोक्षस्य साध्यस्य साधनानां च सम्यग्दर्शना
दीनां साधनत्वेनाव्यभिचारिणामुभयनियमस्य शासनाच्छास्त्रं सद्भिरिष्यते, उभयनियमस्त्वेवं-सम्यग्दर्शनादीनि मोक्षस्यैव ४|साध्यस्य साधनानि नान्यस्यार्थस्य, मोक्षश्च तेषामेव साधनानां साध्यो नान्येषामिति, स च मोक्षो विषक्षक्षयात, तद्विपक्षश्च & वन्धः, स च मुख्यः कर्मभिरात्मनः सम्बन्धः, तेषां तु कर्मणां प्रक्षयेऽय मनुक्रम उक्तः 'चलमाणे इत्यादि तत्र 'चलमाणे'त्ति
चलत-स्थितिक्षयादुदयमागच्छद् विपाकाभिमुखीभवद्यत्कर्मेति प्रकरणगम्यं तच्चलितम्-उदितमिति व्यपदिश्यते,चलनकालो हि उदयावलिका, तस्य च कालस्थासङ्ख्ययसमयंवादादिमध्यान्तयोगित्वं, कर्मपुद्गलानामप्यनन्ताः स्कन्धा अनन्तप्रदेशाः | ततश्च ते क्रमेण प्रतिसमयमेव चलन्ति, तत्र योऽसावाद्यश्चलनसमयस्तस्मिंश्चलदेव तच्चलितमुच्यते, कथं पुनस्तद्वर्तमान सदतीतं भवतीति ?, अत्रोच्यते-यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवतीति, उत्पद्यमा
नत्वं च तस्य प्रथमतन्तुप्रवेशकालादारभ्य पट उत्पद्यते इत्येवं व्यपदेशदर्शनात् प्रसिद्धमेव, उत्पन्नत्वं तूपपच्या प्रसाध्यते, है तथाहि-उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽसावुत्पन्नः, यदि पुनर्नोत्पन्नोऽभविष्यत्तदा तस्याः क्रियाया वैयर्थ्यमभवि
दीप
अनुक्रम
R
anditurary.orm
~35~