________________
आगम
(०५)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम
[8]
““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:)
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [७-R], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ १३ ॥
पंजलिउडे पज्जुवासमाणे एवं व्यासी-से नूणं भंते ! चलमाणे चलिए १, उदीरिजमाणे उदीरिए २, वेइज्जमाणे वेइए ३, पहिज़माणे पहीणे ४, छिनमाणे छिन्ने ५, भिमाणे भिन्ने ६, दह (उज्झ ) माणे दहे ७, मिज्जमाणे मए८, निज्जरिज्जमाणे निज्जिन्ने ९१, हंता गोयमा! चल माणे चलिए जाव णिजरिजमाणे णिजिण्णे॥ (सू०७) 'ततः' ध्यानकोष्ठोपगत विहरणानन्तरं णमिति वाक्यालङ्कारार्थः 'स' इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्योकस्य विशेषावधारणार्थमाह- 'भगवं गोपमेत्ति, किमित्याह -- 'जायस' इत्यादि, जातश्रद्धादिविशेषणः सन् उत्तिष्ठतीति योगः, तत्र जाता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासी जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः | संशयस्तु अनवधारितार्थं ज्ञानं, स चैवं तस्य भगवतो जातः- भगवता हि महावीरेण 'चलमाणे चलिए इत्यादी सूत्रे चलनर्थश्चलितो निर्दिष्टः, तत्र च य एव चलन् स एव चलित इत्युक्तः, ततश्चैकार्थविषयावेतौ निर्देशौ, चलन्निति च वर्त्तमानकालविषय: चलित इति चातीतकालविषयः, अतोऽत्र संशयः कथं नाम य एवार्थो वर्त्तमानः स एवातीतो भवति १, विरुद्धत्वादनयोः कालयोरिति, तथा 'जायकोउहल्ले'त्ति, जातं कुतूहलं यस्य स जातकुतूहलो, जातौत्सुक्य इत्यर्थः, कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यतीति, तथा 'उप्पन्नसहे'त्ति उत्पन्ना- प्रागभूता सती भूता श्रद्धा यस्य स उत्पन्नश्रद्धः, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ?, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात्, न धनुत्पन्ना श्रद्धा प्रवर्त्तत इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थं, तथाहि — कथं प्रवृत्तनद्ध उच्यते ?, यत उत्पन्नश्रद्ध इति, हेतुत्वप्रदर्शनं चोचितमेव वाक्यालङ्कारत्वात्तस्य, यथाहुः - "प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम्”
For Pal Use Only
***मुद्रण-दोषात् अत्र मूल-संपादने सूत्र क्रम '७' द्विवारान् लिखितम् ( इसके पहले सूत्र ७ था, यहाँ फिरसे "सू० ७" लिखा है.
~32~
११ शतके १ देशके चलदादि सु. ७
॥ १३ ॥
Minary or